________________
कार्यस्वभावयोतिरेकनिश्चयोपायः। तदेवं त्रयाणामपि हेतूनां यथास्वं प्रमाणेनान्वयनिश्चय उक्तः। स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात् , कार्यहेतौ प्रत्यक्षानुपलम्माभ्यां कार्यकारणभावसिडिनिमित्तत्वात् , [S. 55b.] अनुपलब्धौ निमित्तान्तराभावप्रसाधकप्रमाणतस्तभावसिद्धिहेतुत्वाचेति ।
5 [$ ३४. कार्यस्वभावयोर्व्यतिरेकनिश्चयोपायकथनम्।] सम्प्रति त्रयाणामपि हेतूनां स्वस्वप्रमाणनिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह - " व्यतिरेकनिश्चयोऽपि " न केवलमन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस्तयोरुक्तः अपि तु " व्यतिरेकनिश्चयोऽपि कार्यस्वभावहेत्वोयथास्वं प्रमाणनिमित्त उच्यते । 10
कः पुनरसौ ? “ साध्याभावेऽभावसिद्धिः" । यावतदात्मक[तदात्मको हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस्तयोः। केन प्रमाणेन ? । “ कारणव्यापकानुपलब्धिभ्यां "। कार्यहेतौ कारणानुपलब्ध्या साध्याभावेऽभावनिश्चयः । खभावहेतौ व्यापकानुपलब्ध्या । कदा पुनस्ते अनुपलब्धी साधिके तस्य 15 भवतः । “ कार्यकारणव्याप्यव्यापकभावसिद्धौ " प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावेऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तद्भावतासिद्धितः। व्याप्यव्यापकभावसिद्धौ सत्यां [S. 56a.] [T. 241a.] व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावेऽभावस्य 20 साधिकेति । तदेवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयादेव द्वयोरप्यन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति । अत एवान्यत्र - " कार्यकारणभावाद वा" [प्रमाणवा० ३.३०] इ. त्यादि उक्तम् । कीदृशीभ्यां ? " दृश्यविषयाभ्यां " दृश्यो विषयो ययोस्ते तथोक्ते । यदि कारणव्यापकावुपलब्धिलक्षणप्राप्तौ भव-25 तस्तदा तदनुपलब्धी साध्याभावेऽभावं साधयत इति यावत् । कदा पुनस्तयोः दृश्यविषयताविशेषणमपेक्ष्यते ? इत्याह – “उद्दिष्टविषयस्य” उद्दिष्टः - कथितो विषयः - आधारो वैधHदृष्टान्तलक्षणो यस्य साध्याभावेऽभावस्य तस्योपदर्शने क्रियमाणे । त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org