________________
हेतु बिन्दुटीका ।
अथ यदि नाम कार्यमग्नेर्धूमस्तथापि किमिति यत्रासौ तत्रावश्यमग्निर्भवति यतः कार्यकारणभावसिद्धिनिबन्धनोऽन्वयनिश्चय उच्यत इत्याह - " अग्नेः भावे एव " सत्तायामेव 'हिः '
-
यस्मात् " भावः " सत्ता धूमस्य " कार्यत्वमिति " । तस्मात् कार्य5 कारणभावे सत्येव यथोक्तोऽन्वयनिश्चय इति । यदि हि यत्र धूमस्तत्रावश्यमग्नि स्यात् तदाऽग्निमन्तरेणाप्यस्य भावाद् अनिभाव [ S. 54b. ] एव भावलक्षणं कार्यत्वं हीयेत ।
५०
[ $ ३३. अनुपलब्धावन्वयनिश्चयोपायकथनम् । ]
इदानीमनुपलब्धावन्वयनिश्चयमाह - " अनुपलब्धावपि " [T. 10 240a.] न केवलं स्वभावकार्यहेतो (त्वो) रन्वयनिश्चय उक्तः किन्त्वनुपलब्धावप्यन्वयनिश्चय उच्यते । किंरूपोऽसौ ? इत्याह(( असद्व्यवहारस्य " साध्यधर्म्मस्य योग्यतायाश्च साध्यत्वात् तद्योग्यताऽसद्व्यवहारोऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या “अनुपलब्धिः” तद्न्योपलब्धिरूपा त" मात्रे " निमित्तान्तरानपेक्षणी, 15 या " वृत्तिः " प्रवृत्तिरसद्व्यवहारस्य तस्याः “ साधनं " सिद्धि: अनुपलब्धावन्वयनिश्चयः । कुतः पुनरसद्व्यवहारस्य तन्मात्रे वृत्तिर्भवति ? इत्याह - “ निमित्तान्तराभावोपदर्शनात् " इति । यदा ह्यसव्यवहारस्य यथोक्तानुपलब्धिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति [S.55a. ] साध्यते तदा यथो20 क्तानुपलब्धिमात्रेऽस्य वृत्तिः सिद्धा भवति । तथा (तया) चानुपलब्धावन्वयनिश्चयः । अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां सत्यामपि यथोक्तानुपलब्धौ नावश्यमसद्व्यवहारस्य भाव इति कुतोऽन्वयनिश्चयः स्यात् ? । निमित्तान्तराभावस्तु विस्तरतो वादन्याय उक्त इति तत एवावधार्यः ।
1
25 अथवा सद्व्यवहारस्य यन्निमित्तमुपलब्धिलक्षणप्राप्तस्य सत्त्वम् तद् असद्व्यवहारनिमित्तादन्यत्वात् निमित्तान्तरं तत्रानुपलब्धेरभाव उपदर्श्यते येन प्रमाणेन तदेवमुक्तम् तेन, सति वस्तुनि तस्या [T. 240b.] असम्भवनिश्चयाद् अनुपलब्धावन्वयनिश्चयः । तच्च तद्व्यतिरेकचिन्तायां दर्शयिष्यामः ।
"
१. तदा च - T.
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org