________________
कार्यहेतावन्वयनिश्चयनिरूपणम् । प्रत्येकं तेषां व्यंजनकत्वाद् “अस्याभावे” जनकत्वेन निर्झर्यमाणतया विवक्षितस्याभावे " न भवति ” इत्यनेनानुपलम्भस्य विषय उक्तः । प्रत्यक्षवृत्तिस्तु पूर्वोक्तैवाऽनुपलम्भरहिता तद्भावे भावग्राहिणी संबन्ध्यते।
तथा चायमपि तद्भावे भावः तद्भावेऽभावश्च कार्यकारण- 5 भावः किंसाधनः ? इत्याह - " प्रत्यक्षानुपलम्भसाधनः " प्रत्यक्षपूर्वकोऽनुपलम्भः तद्विविक्तान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनमस्येति
" प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः "। यस्त्वनुपलम्भसापेक्षेण [S. 53b.] प्रत्यक्षेण साध्यत इति प्रागुक्तः सोऽनुपलम्भपूर्वकं प्रत्यक्षं साधनमस्योति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः। 10 " तस्य " कार्यकारणभावस्यान्वयव्यतिरेकात्मनः “ सिद्धिः " निश्चयो “ यथोक्ताभ्यां " प्रत्यक्षानुपलम्भाभ्यां कार्यहेतावन्वयनिश्चय इति सम्बध्यते।
ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्वत्र कार्यस्य भवतः स्वकारणसत्तयाऽनुगमनमित्येवमवसायः तत् कथं कार्य-15 कारणभावसिद्धिरेवाऽसावुच्यते ? इत्याशङ्कय कार्य[T. 239b.]कारणभावसिद्धिनिबन्धनत्वादन्वयनिश्चयस्य कारणे कार्योपचारादनन्योपायसाध्यतां दर्शयितुम् , दर्शनमात्रनिबन्धनं ये तमिच्छन्ति तन्मतनिषेधार्थमसावेवमुक्त इति दर्शयन्नाह – “कार्यकारणभाव एव हि " कार्यकारणभावे सत्येव ' हिः ' यस्मात् " अर्था- 20 न्तरस्य " साध्या व्यतिरिक्तस्य, यस्त्वव्यतिरिक्तः [S. 54a.] तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयादेवान्वयनिश्चय इति पूर्वमुक्तमेवेत्यर्थान्तरग्रहणम् । तस्यार्थान्तरस्य "एवं स्यात्” । कथम् ? । 'यत्र नाम कचिद् धूमः तत्रावश्यमग्निः' इति नियमेन ' अग्नेः तत्र भावः' इत्येवंरूपोऽन्वयनिश्चयः। यस्त्वकार्य-25 कारणभावेऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः स एकसामध्यधीनतया तस्य स्वकारणाव्यभिचारद्वारक एवेत्यदोषः । १. व्यञ्जक• T. २. मित्येवं साधनावसरः तत् -T. ३. अन्वयनिश्चयः । ४. रस्य (रसत्य)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org