________________
[ २. स्वभावहेतुनिरूपणम् । ] [$ १. स्वभावहेतोर्लक्षणाभिधानम् । ]
1
I
इदानीं स्वभावहेतोस्तावल्लक्षणमाह - " तत्र " हेतुत्रये स्वभावहेतोस्तावल्लक्षणमुच्यते । साध्यते येन तत् साधनम् । तच्चासौ धर्मश्च तस्य भावस्तद्भावः । स एव “ साधनधर्म्मभावमात्र”म् । तस्य “अन्वयः” । स यस्यास्ति साध्यधर्म्मस्यावयवे समुदायोपचा- 5 रात्, तस्मिन् । “ स्वभावो हेतुः " । साध्यधर्म्मस्य श्रुतत्वात् तस्यैव स्वभाव इति गम्यते । कथं पुनरसौ साध्यधर्म्मस्वभावो ? यावता भेदेन प्रतीयत इत्यत आह ' - " अपरस्मादपरस्माच्च" असतोऽक्षणिकाच या "व्यावृत्ति" स्तस्या यो [S. 61b.] "भेदः" अवधिभेदोपकल्पितस्तेन हेतुभूतेन " साध्यधर्म्मात् साधनधर्म्मस्य " यो “भेद" स्तस्मिन् " स - 10 त्यपि ११६६ वस्तुतः " परमार्थतो " लिङ्गस्वभाव एव " साध्यधर्मस्वभाव [T. 245a.] एव । तथा हि - य एवासतो व्यावृत्तः स एवाक्षणिकादपि । तत एकस्माद् धर्मिणो भेदाभावात् साध्यसाधनधर्मावपि परमार्थतो नैव भिद्येते इति ।
[$ २. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम् । ] यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्म्मः, तत् कस्मात् “ साधनधर्म्मभावमात्रान्वयिनि” इति साध्यधम्र्म्मो विशेष्यते ? । यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात् ?, नीरूपत्वप्रसङ्गादतत्स्वभावता वा इत्यत आह - हेतुः स्वभावो यस्य सायस्य तस्मिन् " हेतुस्वभावे " " साध्यधर्मे " सति " अन्वयव्यभि - 20 चाराभावात् " साधनधर्म्म भावमात्रस्य योऽन्वयस्तस्य व्यभिचाराभावात् । [S. 62a.] सम्भवे व्यभिचारे च विशेषणं युक्तम् । अत्र तु सम्भव एव न व्यभिचार इति " विशेषणमयुक्तमेव । तथापि " स्वभावहेतुलक्षणे क्रियमाणे यदेतत् " साध्यधर्म्मस्य " " तन्मात्रान्वयेन” साधनधर्म्मभावमात्रानुगमनेन विशेषणं " तत् परमतापेक्षं " नैया - 25 यिकादीनां विप्रतिपत्तेस्तन्मतापेक्षं न तु स्वमतापेक्षम् ।
www
१. आह परस्परेति । अप° T..
Jain Education International
For Private & Personal Use Only
15
www.jainelibrary.org