SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ हेतुबिन्दुटीका । तामेव परविप्रतिपत्तिं दर्शयन्नाह - " परे हि " नैयायिकादयः "अर्थान्तरनिमित्तं जनकादादन्यो योऽर्थो वेगवद्रव्ययोगादिः तन्निमित्तम् । ते ह्येवमाहुः - वेगवद्व्ययोगादवयवेषु कर्माण्युत्पद्यन्ते । तेभ्योऽवयवविभागः। ततस्तत्संयोगविनाशस्तदारब्धं 5 कार्यद्रव्येऽपि(कार्यद्रव्यमपि) नश्यतीति । [T. 245b.] एवमर्थान्तरं निमित्तं। तत एव "अर्थान्तरनिमित्तमपेक्षमाणं” कृतकत्वादिभावेऽप्यभावाद " अतद्भावमात्रान्वयिनं" तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति [S. 62b.] साध्यधर्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् “अपि” कृतकत्वादेः "स्वभावमिच्छन्ति” 10 यतः ततो विशेषणं कृतम् । तेन च विशेषणेन तथाविधस्या र्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावतामाह लक्षणे विशेषणकारः। स्वसत्तामात्रभाविन्येव स्वभावत्वं नान्यत्रेति विशेषणेन सूचनात् । . [$३. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् । 15 - तथा, “ तस्मिन् ” अर्थान्तरनिमित्ते साध्ये " हेतोः" कृतकत्वादेः व्यभिचारमनैकान्तिकतां चाह । अत्रोदाहरणं “ यथा - हेतुमति विनाशे " साध्ये “ कृतकत्वस्य " हेतोः "अतत्स्वभावता व्यभिचारश्चेति "। ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात् नेष्टैव 20 परैस्तत् किमुच्यते - * अतद्भावमात्रान्वयिनमपि स्वभावमिच्छन्ति” इति ? । एवं मन्यते - व्यतिरिक्तावपि कृतकत्वानित्यत्वाख्यौ धर्मावभ्युपगच्छद्भिरवश्यम् 'अभूत्वा भवनं भूत्वा चाभवनमनवस्थायिस्वभावत्वम्' अभ्युपगन्तव्यम् , [S. 63a.] अन्यथाऽऽत्मादि प्वपि कृतकत्वानित्यत्वे विशेषाभावाद् भवेताम् । ततो यदेव25-'अभूत्वा भवनं भूत्वा[ऽभवनं] चानवस्थायित्वम्' उपादीयते भावस्य तयोरेव तद्दर्शनबलोत्पन्नकृतकत्वानित्यत्वभेदावमासिकल्पनाद्वारेण साध्यसाधनभावोऽस्तु, किं व्यतिरिक्तधर्मकल्पनया ? । [T. 246a.] कल्पयित्वाऽपि वस्त्वात्मन एवार्थक्रियानिव•न्धनतया तदर्थिभिः चिन्त्यत्वात् । तदुक्तम् -.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy