________________
सहेतुकविनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् । " सदसत्पक्षभेदेन शब्दार्थानपवादिभिः । वस्त्वेव चिन्त्यते हात्र प्रतिबद्धः फलोदयः ॥ अर्थक्रियाऽसमर्थस्य विका(चा)रैः किं तदर्थिनाम् ? । षण्ढस्य रूपवरूप्ये कामिन्या: किं परीक्षया? ॥"
. [प्रमाणवा० ३. २०९-२११] 5 इति। तस्माद् दृष्टा अपि भावाः केनचिदात्मना तदन्यव्यावृत्तेन कथश्चिनिश्चिताः तदन्येनाप्यतद्रूपव्यावृत्तेनात्मना भ्रान्तिकारणसद्भावादनिश्चीयमानाः, निश्चितानिश्चितयो रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायपुरोवर्तिनोऽनुमानतो निश्चीयते इति अनित्यताखभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता । तथा 10 च विनाशखभाव एव कृतकत्वाख्यो हेतुः तैर्यथोक्तन्यायादिष्टो भवति । तस्याऽतन्मात्रान्वयित्वेऽर्थान्तरनिमित्ततया विशेषणे.. नातत्स्वभावता [S. 63b.] कथ्यते।
स्यान्मतम् - कृतकत्वेन साक्षाद् हेतुमान् विनाशोऽनुमीयते ततः प्राक्प्रध्वंसाभावविशेषणा सत्ता तत्समवायो वाऽनि-15 त्यता व्यवस्थाप्यते । अत एवात्मादिष्वनित्यताप्रसङ्गाभावः। विनाश इति च न भावाभावं प्रध्वंसलक्षणं मन्यामहे । कृतकत्वं तु स्वकारणसत्तासमवायम् । तस्य विशेषणेन विनाशोऽस्व(शास्व)भावताख्यापने न किश्चिदनिष्टमिति ।
तदयुक्तम् , तथाविधस्य विनाशस्य हेतुमत्ताविरोधात्, खय- 20 मेव चैतदाचार्यो [T. 246b.] वक्ष्यति । न च तेनानुमितेन किश्चित् , तस्यार्थक्रियासामर्थ्यविकलत्वात् । सुखदुःखसाधने ज्ञात्वा यथार्ह प्रतिपित्सवो हि किश्चित् परीक्षन्ते न व्यसनितया। तस्मादनेनास्थिरस्वभावतैव भावस्थानुमातव्या । सैव च हेतुमती
१. वस्तुनि । २. कृतकत्वादिना । ३. अनित्यत्वादिना। ४. सदृशापरापरोत्पत्ति । ५. °द्भावसंभवादनि T.। ६. [कृत]क । ७. अनित्य । ८. निश्चितानिश्चितयोर्यः प्रतिबन्धावसायः स पुरोवर्ती यस्य तस्मात् । ९. विनाशस्य । १०. कृतकत्वस्य । ११. विनाशस्त्र T.। १२, प्रध्वंसरूपत्य । १३. किञ्चिद्वस्तु ज्ञात्वा यथार्ह सुखदुःखसाधनप्राप्तिपरिहारप्रतिपित्सवः सुखदुःखसाधने परीक्षन्ते इत्यर्थः । यद्वा सुखदुःखसाधने हात्वा तत्प्राप्तिपरिहारप्रतिपित्सवः किञ्चिद् वस्तु परीक्षन्ते इति सम्बन्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org