________________
६०
हेतु बिन्दुका I
कल्पनीया । अन्यथा भावविलक्षणस्य प्रध्वंसाभावस्य मुद्गरादेरुदयेऽपि तस्य भावेऽनुपयोगात् स भावस्तदवस्थ [S. 642.] एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात् ? । अविचलितरूपस्य च भावस्य मुद्गरादिकृतप्रध्वंसाभावविशे5 पण सत्तासमवायौ यद्यनित्यता, किं नात्मादेरपि ? इति प्रसङ्गः तदवस्थ एव । स्वकारणसमवायोऽपि चाभूत्वा भवनमनिच्छतो न सिध्यति । अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते । न च सत्तासमवाययोन्नित्यतयोपगतयोर्निरतिशयत्वात् प्राक्प्रध्वंसाभावी विशेषणं युज्येते । अभूत्वा भवनोप10 गमे च तदेव कृतकत्वमस्थिरस्वभावता च विनाशोऽस्तु । किं निष्फलया अप्रमाणिकया प्रमाणबाधितयाऽर्थान्तरकल्पनया ? | एवं कृतकत्वविनाशयोस्तादात्म्योपगभोऽवश्यम्भावी परेषामपि । ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते । तन्निष्पत्तावनिष्प15 न्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात् ।
तथा, तस्मिन् साध्ये [S. 64b.] कृतकत्वस्यं व्यभिचारः । तथा हि - ये यत्र हेत्व [T. 247a. ]न्तरापेक्षिणो न ते तत्रावश्यम्भाविनः, यथा वाससि रागः । हेत्वन्तरापेक्षी च कृतकेष्वपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः ।
20 ननु वाससि रागस्य परिमित हेतुत्वात् तस्य च स्वकारणायत्तसन्निधानत्वात् तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम्भाविता युक्तव । न पुनर्विवनाशस्य, तडेतूनामानन्त्यादवश्यं कस्यचिद् घटादिषु सन्निधेः । न च विनाशस्याश्रयं प्राक् तद्धेतुसन्निधेः केचिदुपघ्नन्ति यतस्तदभावाद् विनाशो ना25 रभ्येतेति ।
"
तदयुक्तम्, यतो यद्यपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकारणायत्तसन्निधित्वात् तथा तत्कारणानां च सनिहितानामपि विरोधिनामध्यानन्त्यात् तद्भावे तच्छक्तिप्रतियन्धान्नावश्यं हेतवः फलवन्त इति कश्चिन्न विनश्येदपीति व्यभि१. भावविविक्तक्षण T,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org