SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ साधर्म्यवैधर्म्यप्रयोगोपदर्शनम् । चारो न निवर्तते । नन्वयं वाससि रागः सापेक्षोऽपि यदि सख़त्रोपलभ्येत ततः किमवश्यम्भावी न स्यात् ? । स्याद् , यदि तथोपलभ्येत । स त्वन्यथाऽपि [S. 65a. ] गृह्यते । यद्येवं न तर्हि सर्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया मनसि खेद आधातव्यः । किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः?, 5 येनैवं वदति । तथाभावे वा कथमनुमानवृत्तिर्दृष्टे न वैफल्यमश्नुवीत ?। कस्यचित् तु [T. 247b.] हेतुकृतविनाशदर्शनेऽपि हेत्वायत्तजन्मनामन्यथाऽपि दर्शनाद् उपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं निश्चिन्वीत ? । कृतकमपि चायं भावाभावलक्षणं विनाशं नित्यमुपैति, तद्विनाशोपगमे भाव-10 स्योन्मजनप्रसङ्गात् । न चास्य घटादेरिव विनाशहेतुरुपलभ्यते कश्चिदिति । तदुक्तम् - " घटादिषु यथा दृष्टा हेतवो ध्वंसकारिणः । नैवं नाशस्य सोऽहेतुस्तस्य संजायते कथम् ? ॥ " इति । ततः कृतकत्वस्य विनाशे साध्ये तेनैव व्यभिचार: 15 किं नेष्यते । भावानामयमैकान्तिक एव धर्म इति चेत्, कुतः पुनरेतद्वसितम् । तेषामन्यथाभावस्थानुपलम्भादिति [S. 65 b.] चेत् । नन्वयमनुपलम्भो भवन्नप्यात्मादेरनिवर्त्तकः सत्तायाः, कथमन्यत्रान्यथाभावं निवर्तयति ? । तस्यानुमानेनोपलम्भादिति ययुच्येत तदा तंत्राप्यनुमाने विपक्षे वृत्तिमनुपर्लंम्भ एव हेतो: 20 कथं निवर्तयति ? इति यत्किञ्चिदेतत् । तस्मात् साधूक्तम् - 'हेतुमति विनाशे कृतकत्वस्याखभावतां व्यभिचारं चाह ' इति अलमतिजल्पितेनेति । [$ ४. परार्थानुमाने साधर्म्यवैधय॑प्रयोगोदाहरणम् ।] इदानीं यद्यपि खानुमानं प्रकृतं तथापि कश्चित् प्रयोगदर्शनाभ्यासात् प्रयोगभङ्ग थैव प्रतिपद्यत इति स्वार्थानुमानेऽपि 25 १. परः। २. अवश्यम्भावित्वाशङ्कया। ३. अवश्यम्भाविविनाशित्वम् । ४. नाशः । ५. नाशस्य । ६. आत्मादेः। ७. आत्मानुमानेऽपि। ८. अप्रमाणकः सन् (प्रथमं टिप्पनम् ) आत्मादेः 'संशयापनिवर्तः कत्वेनाभिमतो यः स एव (द्वितीयं टिप्पनम्)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy