________________
हेतुबिन्दुटीका। तत्सम्भवात् प्रसङ्गेन परार्थानुमानं च व्युत्पादयितुमाह - "तस्य" स्वभावहेतोः “ द्विधा " त्रैलक्षण्यप्रतिपादको [T. 248a.] वचनोदाहारः “ प्रयोगः " । तमेव दर्शयति - समानो धर्मो यस्य तस्य भावः तेन " साध्य(ध)र्येणैकः " प्रयोगः । “ अपरो” विसदृशो धर्मो 5 यस्य तस्य भावः तेन “वैधण "।
यथाक्रममनयोरुदाहरणमाह - " यथा यत् सत् "। यद्यत्सदिति वीप्साप्रधानो यच्छन्दः । “तत् सर्वम्” इति तच्छब्दोऽपि वीप्साप्रधान एव । अत्र सर्वग्रहणेन चाशेषपरिग्रहाद् [S. 66a.]
बहिातेर्निरासः। “ यथा घटादयः" इति। यस्य सत्त्वक्षणिक10 त्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादी प्रवृत्तं तं प्रति तत्र स्मृति
समाधानार्थ दृष्टान्तवचनं न साध्यसिद्धयर्थम् । दृष्टान्तमात्रतः साध्यसिद्धेरभावात् । न ह्येकस्य तथा भावे सर्वस्तथा भवति, अतिप्रसङ्गात् । “ संश्च शब्दः” इति पक्षधर्मोपसंहारः।
वैधर्म्यप्रयोगस्योदाहरणम् - " तथा " इत्यादि । तथाशब्दः 15 समुच्चये। वैधर्येण च प्रयोग उदाहियते । अत्रापि सर्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् "क्षणिकत्वाभावे " सर्वस्मिन् “ सत्वा(त्त्वा)भावः ” इति।
प्रयोगद्वयेऽपि सर्वग्रहणस्य फलं दर्शयन्नाह- "सर्वस्मिन् साधनधर्मवति " धम्मिणि न दृष्टान्तधम्मिण्येव “साध्यधर्मस्योपसंहरणं 20 " उपसंहारो " ढौकनं तेन या " व्याप्तिः " 'व्यापकस्य तत्र भाव
एव' इत्यादिरूपा तस्याः प्रदर्शनं प्रतिपादनं तदेव "लक्षणं” ययोः तौ तथोक्तौ। ततश्च ये [T. 248b.] [S. 66b.] साध्यमिणं परिहत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते - यद्यपि दृष्टान्तधम्मिणि साध्यधर्मेण साधनधर्मों व्याप्तः तावताऽस्य सर्वत्र तथाभा25 वाभावात् साध्यसिडिरयुक्तेति - निरस्ता भवन्ति । सर्वत्र वा
साध्यधर्मेण साधनधर्मस्य व्याप्तिः तद्भावे, सा तथाविधैव किन्न प्रदर्यते येनासमर्था बहियासिराख्यायते ? । न हि ‘स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद् ' इति तत्पुत्रत्वस्य १. प्रयोग । २. °मानप्रयोगं व्यु T. । ३. °माह यद्यत्सदिति – T.I .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org