________________
प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् ।
श्यामत्वेन साध्याद् बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शनेऽपि साध्यसिद्धिर्भवति । तस्माद् यैव सव्र्वोपसंहारेण व्याप्तिः प्रमासिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये प्रदर्शनीया । न च सव्र्वोपसंहारेण व्याप्तिप्रदर्शनेऽपि धर्म्मविशिष्ट धर्म्यपि तदैव प्रतीयते, यतः पक्षधम्मपदर्शनोत्तरकाल- 5 भाविनोऽनुमानस्य स्मृतित्वं [S. 67. ] स्यात् । तस्याः साध्यधffणि साध्यधर्माविनाभूतसाधनधर्म्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात् प्रागसम्भवात् । तत्पूर्विवकायां च व्याप्तौ अनन्तरं विशेषविषयमनुमानं कथं स्मृतिः स्यात् ? इति ।
[$५. वैधर्म्यप्रयोगेऽपि व्याप्तिप्रदर्शनं संगतम् । ]
,
ननु च साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्मे सति साध्यधर्म्मस्यावश्यम्भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम् ? । तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते न तु हेतौ [T. 249a] सति साध्यस्य भाव एवेति । नैष दोषः । न ह्यत्र साध्याभावे हेत्वभावस्तुच्छरूपो 15 दर्श्यते, तस्य हेतुरूपताविरोधात् । वस्तुधम्र्म्मो हि सत्त्वादिको हेतुः । तस्यात्मन एवाभावः कथं [हेतुस्व] रूपं भविष्यति, यतत्रिरूपो हेतुर्भवेत् । किन्तु निवृत्ती निवृत्तिधर्मकत्वं स्वगतो धर्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे च साधनधर्मेऽवश्यंतया साध्यधर्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ नि - 20 वृत्तिधर्मकत्वस्यैवायोगादिति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्य - प्रयोगस्य न युज्यते । [ S. 67 b. ]
I
[ $ ६. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् । ]
६३
ननु द्विविधेऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत् कथं तदर्थावगति: ?, तदर्थप्रत्यायनाय च साधनप्रयोगोऽभिमत: 25 इत्यत आह - "अत्र" अनयोः प्रयोगयोः " पक्षधर्मसम्बन्धवचनमात्रसाम
Jain Education International
10
१. प्रतिबन्ध । २. साध्यधर्मविशिष्टधर्मिमप्रतोतेः । ३. पक्षधर्मोपदर्शनपूविकायाम् । ४. व्याप्तिस्मरणात् । ५. तुच्छरूपस्य । ६. तस्य हेतुव्याप्तिनिर्देश लक्षणरूपसम्बन्धित्वाभावात् - T. । ७. सत्त्र(स) स्य 1.८. विपक्ष निवर्तनस्वभावे ।
For Private & Personal Use Only
www.jainelibrary.org