________________
हेतुबिन्दुटीका। •देव " वक्ष्यमाणकात् "प्रतिज्ञार्थस्य " धर्मधम्मिसमुदायलक्ष. णस्य साध्यस्य “प्रतीते:" हेतोः "न" " प्रतिज्ञायाः प्रयोग उपदर्शितः" । परः सामर्थ्य मनवबुध्यमान आह - “ अप्रदर्शिते " वचनेन "प्रमेये" साध्ये " कथं " न कथञ्चित् “तत्प्रतीतिः” प्रतिज्ञार्थप्रतीति: "इति” एवं 5 " चेद् ” यदि मन्यसे तदा स्वार्थानुमानकाले " स्वयं " परं प्रतिपादकमन्तरेण " प्रतिपत्तौ ” प्रमेयस्य " क उपदर्शयिता " ? नैव [T. 249b.] कश्चित् । स्वयमेव तु साध्याविनाभूतसाधनधर्मदर्शनात् प्रमेयं प्रतिपद्यते तथा परार्थानुमानेऽपि तत एव तत्प्र
तीतिरस्तु किं प्रतिज्ञावचनेन ? । 10 यदि स्वयंप्रतिपत्तिकाले न कश्चित् प्रमेयस्योपदर्शयिता कथं [S. 68a.] तर्हि तत्प्रतिपत्तिः ? इत्यत आह - " प्रदेशस्थं " साध्यधम्मिणि स्थितं “धूमं " साधनधर्म “ उपलब्धवतः " प्रत्यक्षेण दृष्टवतः सतः " तस्य ” धूमस्य " अमिना ” साध्यधर्मेण प्रमा
णतः प्रतिबन्धनिश्चयबलात् प्राक्प्रतिपन्नायाः “ व्याप्तेः " अविना15 भावस्य " स्मरणे " सति " तत्सामर्थ्यादेव " पक्षधर्मग्रहणव्याप्सिग्रहणसामर्थ्यादेव प्रतिज्ञाप्रयोगरहिताद् " अमिरत्र इति ” एवंरूपा " प्रतिज्ञार्थप्रतीतिर्भवति"। .
- स्यान्मतम् - तत्राप्यस्य कर्णपिशाचिकादिः प्रमेयं कथयत्येवेत्यत आह - " न च " नैव " तत्र " स्वार्थानुमानकाले "क20 श्चित् " कर्णपिशाचिकादिरदृश्यो “ 'अग्मिरत्र' - इति” एवम् “अस्मै”
प्रतिपत्रे(त्रे) प्रमेयं “निवेदयति ” कथयति । यदि भवान् सत्यवादी नैवं वक्तुमर्हति । तथा हि - वयमपि प्रदेशस्थधूमदर्शनात् तस्याग्निना व्याप्तिस्मरणसापेक्षादग्निं [S. 68b.] प्रतिपद्यामहे । न
चास्मभ्यं कश्चित् निवेदयति 'अग्निरत्र' इति , भवति च तत्पति25 पत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति ।
यद्यपि न कश्चित् निवेदयति तथापि स्वयमेव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गमनु[T. 250a.]सरिष्यतीति चेत्, आह - " नापि " न केवलं न कश्चित् निवेदयति "स्वयमपि प्रागेव" लिङ्गव्यापारात् न प्रतिपद्यते " किञ्चिद् ” अग्न्यादिकम् । कस्मात् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org