________________
प्रतिज्ञाप्रयोगस्य नरर्थक्यम् । इति चेत्, “प्रमाणं” हेतुम् “अन्तरेण” विना 'अग्निरत्र' इत्येवं प्रतीते: " निमित्ताभावात् "। त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेनिमित्तम् , तदभावे सा कथं भवेत् ? । अथ लिङ्गमन्तरेणाप्येवं प्रतीतिर्भवतीति ब्रुयात् तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम् , तस्थानुमेयप्रतिपत्त्यर्थत्वात् , तेन विना तत्प्रतिपत्तौ कथमस्य नि- 5 प्रयोजनता न स्यात् ।
अत्यन्तमूढतां च परस्य दर्शयन्नाह - “ स्वयमेव " खतन्त्र एव 'अग्निरत्र' - इति व्यवस्थाप्य । कथं [S. 69a.] स्वतन्त्रो व्यवस्थापयति । " अकस्मात् ” प्रमाणमन्तरेण व्यवस्थापनात् " तत्प्रतिपत्तये " निनिमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थ “ पश्चात् " 10 “ लिङ्गं " तन्निमित्तम् “ अनुसरतीति कोऽयं प्रतिपत्तेः क्रमः" परिपाटिः। तथा हि-प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिरिति विपश्चितां क्रमः । अयं त्वपूवोऽनुमाता यस्तद्विपर्ययमाश्रयत इति उपहसति । यत्तल्लोके गीयते - शिरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वादस्य क्रमस्य । तस्मात् पक्षधर्मग्रहण- 15 व्याप्तिस्मरणसामर्थ्यादेव स्वयं प्रतिपद्यते । तच प्रतिपादकं कथितमेवेति न किश्चित् प्रमेयनिर्देशेन ।
यदि नाम स्वार्थानुमानकाले स्वयमेव साध्यं [T. 250b.] प्रतिपद्यते तद् युक्तमेव , लिङ्गस्यापि तत्र स्वयमेव प्रतिपत्तेः । परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयमपि परत 20 [S. 69b.] एव प्रत्येतव्यम् । अतो युक्त एव प्रतिज्ञाप्रयोग इत्यत आह - " परेणापि " न केवलं स्वयमेव प्राग् व्यवस्थाप्यमानं प्लवते परेणापि वादिना “ तत् ” प्रमेयम् “उच्यमानं प्लवत् एव ” तबचनस्य सन्दिग्धार्थाभिधायकतया साध्यनिश्चयानङ्गत्वात् प्रमेयगाम्भीर्यानवगाहिनः परम्परयाऽप्यतत्सम्बद्धस्य विवक्षामात्रनि- 25 बन्धनतयोपर्येवावस्थापनात् । कस्मात् प्लवते ? इति चेत्, “ उपयोगाभावात् ” नास्य साध्यप्रतीति प्रति कश्चिदुपयोगः, तत्प्रत्यायनसमर्थस्यानभिधानादिति यावत् ।। १. व्यवस्थापयिष्यति - T.
Jain Education International
For Private & Personal Use Only
.
www.jainelibrary.org