________________
हेतुबिन्दुटीका। परस्तूपयोगमात्रं कदाचिंद् ब्रूयाद् इत्याशङ्कयाह – “विषयोपदर्शन” हेतोर्यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः " चेत् मतम् ” । अत्राह " तेनैव " विषयेण, "ताव"च्छब्दः क्रमे । विषयस्योपदर्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञाव5 चनस्य प्रयोजनं भवेत् । विषयेणैव तु दर्यमानेन " कोऽर्थः " किं [S. 70a.] प्रयोजनम् ।
ननु साध्यप्रतीतिः साधर्म्यवत्प्रयोगादिप्रतीतिश्च विषयोपदर्शनस्यार्थः । ततस्तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम् । तथा हि - असति साध्यनिर्देशे 'यत् कृतकं तदनित्यम् । इत्युक्ते 10 किमयं साधर्म्यवान् प्रयोगः ? [T. 251a.] उत वैधर्म्यवान् ? ' इति न ज्ञायेत । उभयं ह्यत्राशङ्कयते - कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान् , नित्यत्वेनाकृतकत्वे वा वैधर्म्यवान् इति । 'अनित्यः शब्दः ' ' अकृतको वा' इति तु प्रतिज्ञावचने सत्यु
भयमसन्दिग्धमवगम्यते । हेतुविरुद्धानैकान्तिकप्रतीतिश्च न 15 स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे ' अनित्यः शब्दः, कृतकत्वात् '
इति हेतुभावः प्रतीयते, 'नित्यः, कृतकत्वात् ' इति विरुद्धता, 'प्रयत्नानन्तरीयकः कृतकत्वात् ' इत्यनैकान्तिकत्वम् । हेतोश्च त्रैरूप्यं न गम्येत , तस्य साध्यापेक्षया व्यवस्थानात् । सति प्रतिज्ञावचने अवयवे समुदायोपचारात् साध्यधर्मी पक्ष इति तत्र 20 [S. 70b.] वृत्तस्य कृतकत्वस्य पक्षधर्मत्वं ; साध्यधर्मसामान्येन
च समानोऽर्थः सपक्ष इति तत्र वर्तमानस्य सपक्षे सत्त्वम् ; न सपक्षोऽसपक्ष इति साध्यधर्मविरहिण्यवृत्तस्यासपक्षेऽन्यसत्त्वं प्रतीयेत इत्याशङ्कयाह - " यदि प्रतीतिः ” साध्यस्य निश्चयलक्षणा साधर्म्यवत्प्रयोगादेश्च स्वरूपावधारणात्मिका । : अ25 न्यथा " प्रतिज्ञावचनमन्तरेण " न स्यात् तदा " यदुक्तं साध्यसिध्यर्थ साधर्म्यवत्प्रयोगादिज्ञानार्थ च विषयोपदर्शनम् इति तत् " सर्वं शोभेत " यावता स्वार्थानुमानकाले प्रतिज्ञावचनमन्तरेणापि पक्षधर्मग्रहण[T. 251b.]सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्येव प्रतीतिः इत्याख्यातमेव । तद्वत् परार्थेऽप्यनुमाने भवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org