________________
प्रतिशाप्रयोगस्य नैरर्थक्यम् । ष्यति। यत एवं " तस्मात् ” “ एष " प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य [S. 71a.] " प्रतीतौ " विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा “ केनचित् " तेन " विनापि " " प्रतियन् ” साध्यं निश्चिन्वन् लिङ्गसामर्थ्यादेव । यदाऽस्माभिः प्रतिपाद्यते तदा "अस्मान् कार्यिणो दृष्टा व्यक्तं " प्रति- 5 ज्ञाप्रयोगलक्षणं " मूल्यं मृगयते " । क इव ? " पर्वब्राह्मण इव "। यथा दक्षिणामन्तरेणाप्यन्यदा और्ध्वरथिको ब्राह्मणो भुञ्जानोऽन्यदा श्राद्धादिपर्वण्यर्थिनं श्रद्धालुं ब्रवीति - यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततोऽहं भुले नान्यथेति । तेन तुल्यो भवानपीति।
10 किञ्च, यदपि ब्रवीषि - परार्थानुमानकाले यथा लिङ्ग परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस्तथा साध्यमपीति । तदैतद् युज्यते यद्यसौ वादिवचनमात्रेण लिङ्गमपि निश्चित्य तदनुसारेण साध्यमवगच्छेत् , परप्रतीत्यार्थिनश्च तदा वयमपि प्रतिज्ञा किन्न प्रयुज्महे लिङ्गवचनरहिताम् ? । [S. 71b:] अस्मद्वचनस्यैव 15 तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः , तद्वचनस्य चरिताथत्वात् । न चैतदस्ति, यतः “ अस्मद्वचनादपि " न केवलं स्वार्थानुमानकाले अस्मद्वचनमन्तरेण इत्यपिशब्दः । किन्तु [T. 252a.] यदाप्यस्मद्वचनं प्रवृत्तं तदापि "नैव” अस्मद्वचनात् “लिङ्गमपि प्रत्येति”, कुत एव साध्यसिद्धयेऽनुसरिष्यति ? । अपि तु स्वयमस्य यदि 20 तल्लिङ्गं कुतश्चित् प्रमाणतः सिद्धं भवति “ अस्मद्वचनेन तु " केवलं तत्र “ स्मृतिसमाधानमात्रं क्रियते "। तदा स्वयं सिद्धमेव लिङ्गमनुसृत्य साध्यं प्रत्येति । नास्मद्वचनात् पानीयमपि पिबतीति । " तस्मात् " " कोऽनयोः " प्रतिज्ञावचनावचनात्मिकयोः “अवस्थयोविशेषः” ?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्यादेव साध्यप्रतीतेने कश्चित् । ततः 25 स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम् , ततः साध्यप्रतीतिं च प्रति विशेषाभावात् प्रतिज्ञोपन्यासः परार्थानुमानेऽपि व्यर्थ [S. 72a.] एव । लिङ्गमपि हि तावत्र नाभिधीयते यदि तत् १. लिङ्ग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org