________________
हेतुबिन्दुटीका। पूर्वप्रसिद्ध स्वयमनुस्मरेत् किमङ्ग पुनः सन्दिग्धाभिधायक प्रतिज्ञावचनमुपादीयते ?। __ स्यान्मतम् - यदि नाम साध्यसिद्धी प्रतिज्ञावचनस्य नोपयोगस्तदर्थोऽस्य प्रयोगो मा भूत, साधर्म्यवत्प्रयोगादिज्ञानार्थ तु 5 तदुपादानमवस्थितमेव , तस्यान्यथा प्रतीत्यभावात् इत्यत आह" दृष्टा च साधर्म्यवत्प्रयोगादेः प्रतिज्ञावचनमन्तरेणापि प्रतीतिः , " ततस्तद्र्थोऽपि प्रतिज्ञोपन्यासो न शोभते ।
कुतः पुनः साधर्म्यवत्प्रयोगादेरसति साध्यनिर्देशे प्रतीतिः? [T. 252b.] इत्याह - पक्षधर्मसम्बन्धवचनमात्रादिति "। एवं मन्यते - 10 नैव हि कश्चित् ' यत् कृतकं तदनित्यम् ' एतावन्मात्रमभिधी
याऽऽस्ते, साधनन्यनतयैवास्य पराजयात्, किन्त्ववश्यं हेतोर्द्धमिण्युपसंहारं करोतीति । तत्र यदि ‘कृतकश्च शब्दः' इति ब्रूयात् तदा [S. 72b.] साध्य(ध)ऱ्यावत्प्रयोगप्रतीतिः, अथ 'नित्यश्च' इत्यभिध्यात् तदा वैधय॑वत इति सम्बन्धवचन15 पूर्वकात् पक्षधर्मवचनात् प्रयोगव्यावगतिः।
हेतुविरुडानैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते । यदा तु सम्बन्धवचनमपि क्रियते तदा कथमप्रतीतिः । तथा हि - ' यत् कृतकं तदनित्यम् ' इति पक्षधर्मवचने सत्युक्ते हेतुरवगम्यते, विधीयमानेनानूद्यमानस्य व्याप्तेः । ' यत्कृ20 तकं तन्नित्यम् ' इत्यभिधाने विरुद्धः, विपर्ययव्याप्तेः । ' यत् कृतकं तत् प्रयत्नानन्तरीयकम् ' इति प्रदर्शने व्यभिचारादनैकान्तिकाध्यवसायः।
त्रैरूप्यमपि हेतोर्गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतयाऽवगम्यते । यत्र च व्याप्यो धर्मो धम्मि25 ण्युपसंह्रियते स व्यापकधर्मविशिष्टतयाऽवगम्यमानः साध्यस
मुदायैकदेशतया पक्ष इत्युपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः, [S. 73a.] सा च व्याप्तिर्यत्र धम्मिण्युपदय॑ते स साध्यधर्मसामान्येन समानोऽर्थः सपक्षः प्रतीयत इति सपक्षे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org