________________
प्रतिक्षाप्रयोगस्य नरर्थक्यम् सत्वमवगम्यते, सामर्थ्याच्च [T. 253a.] व्यापकनिवृत्ती व्याप्यनिवृत्तिर्यत्रावसीयते सोऽसपक्ष इत्यसपक्षेऽप्यसत्व(त्व)मपि निश्चीयत इति , यदि पक्षादिभिरपि ज्ञातैः किश्चित्प्रयोजनं । न तु व्यवहर्तणां पक्षादिसङ्केतापेक्षा परोक्षार्थगतिर्भवति । तथा हि - यत् कचिद् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद् ग- 5 मकं तत्र इति हि लोके वस्तुगतिर्भवति, न पक्षादिसङ्केतग्रहणापेक्षा । तत्र यथेष्टं शास्त्रकारा गमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा वा लक्षणं प्रणयन्तु । न तु व्यवहारकाले तदनुसरणं कचिदुपयुज्यते। तत्सङ्केतप्रतिपादितमेव तु यथोक्तं गमकं रूपमुपयोगि व्यवहर्तृणाम् । तच्चेत् प्रतिपन्नं तावतैव साध्यसिद्धि: 10 सञाता इति पक्षसपक्षादिसङ्केतापरिज्ञानेऽपि [S. 73b.] न किश्चित् प्लूयते। अत एवाचार्यपादैान्तरीयकार्थदर्शनं तद्विदोऽनुमान' मिति गमकरूपमात्रमेव पक्षादिसङ्केतानपेक्षं प्रतिपादितम् । स्वप्रज्ञापराधास्तु तत्रापि कैश्चिदसन्त एव दोषाः प्रकीर्त्यन्त इति किमत्र ब्रूमः ? । “ तस्मात् ” साधर्म्यवत्प्रयोगादिज्ञानार्थमपि 15 प्रतिज्ञावचनं पक्षधर्मसम्बन्धवचनमान [T. 253b.] एव यथोक्तेन प्रकारेण प्रतीतेरयुक्तमिति " कस्तस्य ” प्रतिज्ञावचनस्य "उपयोगः” नैव कश्चित् । । __ स्वयं चायं वादी येन क्रमेणानुमेयं प्रतिपन्नवांस्तमुल्लङ्ग्य परप्रतिपत्तये कमान्तरमाश्रयन् परवश्चकतया धूर्त एव प्रतीयते , 20 न सद्वृत्त इत्युपदर्शयन्नाह – “ स्वनिश्चयवत् ” इत्यादि । यथाऽऽस्मनो निश्चयस्योत्पादनं कृतं तथैव "अन्येषामपि निश्चयोत्पादा(द)नाय” च परहितनिरतैः " साधनमुच्यते ", "तत्र” एतस्मि(स्मिन्) न्याये सति स्वयमयं वादी " प्रमेयस्योपदर्शनेन ” उपदर्शकेन वचनेन " विनाऽपि " स्वार्थानुमानकाले " प्रतिपद्य ” प्रमेयं " परं " संशयितादिकं " प्रति- 25 पादयन् ” स्वप्रतिपन्नं प्रमेयमवबोधयन् “अपूर्व” स्वप्रतिपत्तिकाले . पूर्व [S. 74a.] यः प्रमेयप्रतिपत्तौ “क्रमः " उपायोऽनुभूतस्तस्मादन्यम् “ आश्रयत इति किमत्र " क्रमान्तराश्रयणे “ कारणम् " ? नैव किश्चित् परव्यामोहनं मुक्त्वा । तथा हि – यदि स्वप्रतिपत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org