________________
हेतु बिन्दुटीका ।
क्रमः प्रतीतिनिबन्धनं किं तत्परित्यागेन क्रमान्तराश्रयणम् ?, कथं तेन स्वयं प्रतिपन्नवानसीति ? । यत एवं " तस्मान्न प्रमेयस्य " साध्यस्य " वचनेन " प्रतिज्ञाख्येन " किञ्चित् प्रयोजनम् " । कुत: ? । * अन्यथापि [T. 254a. ] विनाऽपि तेन " प्रतिपत्तेः " साध्यप्रतीतेः 5 " उत्पत्तेरि”त्युपसंहारः ।
७०
[ $७. उपनयनिगमनादेरपि साधनवाक्यानङ्गत्वम् । ]
एवं प्रतिज्ञां साधनवाक्यादपनीयापरमप्युपनयनिगमनादिकं परपरिकल्पितं साधनवाक्यादपनेतुमुक्तमेव न्यायमतिदिशन्नाह " एतेन " : अन्यथाऽपि प्रतिपत्तेरुत्पत्तेः ' इति न्यायेन 10 “ उपनयनिगमनादिकं ” आदिग्रहणात् संशयजिज्ञासादिकं " प्रत्युक्तं " प्रत्याख्यातम् । [S. 74b.] तत्र “उदाहरणापेक्ष: ' तथा ' इत्युपसंहारो 'न तथेति वा साध्यस्योपनयः " [ न्याय० १.१.३८ ], "प्रतिज्ञायाः पुनर्व्वचनं निगमनम् " [ न्याय० १.१.३९] इत्यनयोर्लक्षणम् । " साध्यनिर्देशः प्रतिज्ञा " [ न्याय० १-१-३३] इति तु प्रतिज्ञायाः । एतेनेत्येतदेव दर्शयति 15 एतावतैव " पक्षधर्मसम्बन्धवचनमात्रेणैव उपनयादिरहितेन
K
“साध्यप्रतीतेः भावात्” उत्पत्तेरिति ।
1
अत्रोयो (दो) तकरः प्राह - प्रतिज्ञा तावद्विषयनिर्देशार्थमवश्यकर्त्तव्या, यतो लोकः प्रथमं कर्म च्छेद्यादिकं निरूपयति । ततः कुठारादिकं साधनं व्यापारयति । उपनयेनापि यावद् दृ20 ष्टान्ते दृष्टसामर्थ्यो हेतुईम्मिणि नोपसंह्रियते तावत् कुतः साध्यप्रतीति: ? । स्वार्थानुमानदृष्टश्च प्रत्यवमर्शप्रत्ययार्थोऽनेन दइर्यते । तथा हि - स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो * यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निमपि ' इति व्यासिं [T. 254b.] स्मरति । ततो 'धूमश्चात्र ' इति पुनः प्रत्यवमृशति, 25 स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते । [S.75a ] निगमनमप्यवश्याभिधानीयम्, यतो यद्यपि पूर्व अनित्यः शब्द इत्युक्तम्, न तु तावताऽस्य निश्चयो जातः । सम्प्रति तु प्रमाणबलायातोऽर्थः तत्सम्प्रत्ययार्थमनेन निगम्यते । अशेषप्रमाणव्यापारश्चानेनोपसंहियते । तथा हि- आगमः प्रतिज्ञा, हेतुरनुमानं,
1
Jain Education International
ww
For Private & Personal Use Only
www.jainelibrary.org