________________
उपनयादेरपि नैरर्थक्यम् । दृष्टान्तः प्रत्यक्षमुपमानमुपनयः । तदेतस्य प्रमाणचतुष्टस्यापि व्यापारो निगमनेनोपसंहियते - इति कथमस्य न साफल्यम् ? इत्येतदाशङ्कयाह - "डिण्डिकरागं परित्यज्य " डिण्डिका:- नग्नाचार्याः ते निष्फलमुपर्युपरि नामलेखने प्रसक्ताः ततस्तेषामिव परेणोक्ते तस्योपरि मयाऽवश्यमयुक्ततया निष्फलमप्यभिधानीयम् ' 5 इत्यस्थानाभिनिवेशं त्यक्त्वा “ अक्षिणी निमील्य " बहिविक्षेपमुपसंहृत्य “चिन्तय तावत् " - " किमियता " पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य " प्रतीतिः स्यात् न वा ? ” इति । यावता यावानेव [S. 75b.] परार्थानुमानेऽर्थोऽभिधानीय इत्यस्माभिरनुज्ञायते तावानेवान्यूनानतिरिक्तः स्वार्थानुमानेऽपि प्रतीति- 10 हेतुर्दृष्टः, तस्य क इह शक्ताघातः ? येनासौ परार्थानुमानेऽपि प्रतीतिं न कुर्यात् । “ भावे " प्रतीते: “ किं प्रपञ्चमालया ” प्रतिज्ञोपनयनिगमनलक्षणया [T. 255a.] , बालप्रतारकर्तदुपयोगोपवर्णनलक्षणया वा ?। तथा हि - प्रतिज्ञोपनयनिगमनप्रयोगेऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्मस्य न स्यात् , सा- 15 ध्यधम्मिणि वा सद्भावस्तदाऽस्य नैव प्रतीतिहेतुता। तत्सम्भवे तु प्रतिज्ञाद्यभावेऽपि स्वार्थानुमान इव गमकरूपावैकल्यात् सा न निवार्यत इति किमस्थाननिर्बन्धेन इति ? । नहि साध्यधाक्षेपणसामर्थ्यविरहे साधनधर्मस्य वादिवचनमात्रात् साध्यनिश्वयो युक्तः, हेतूपन्यासवैयर्थ्यप्रसङ्गात् , तस्य तदाक्षेपसामर्थ्य वा 20 प्रतिज्ञावचनस्येति । ___ यत्तूक्तम् ' विषयप्रदर्शनाय प्रतिज्ञा' इत्यत्र शास्त्रकृतैव दत्तमुत्तरम् । यश्च साधनं प्रयुक्ते तेन ‘अहमनेन [S. 76a.] साधनेनामुष्मि(ष्मिन्) साध्ये प्रतीति साधयिष्यामि' इति कर्म निरूप्यैव तत् प्रयुक्तमिति न लौकिकन्यायातिक्रमः, अन्यथा यदि 25 साधनाद यस्य साध्यप्रतीतिरुपजायते तेनैव कर्म निरूपणीयम् कथं तद्भावे स्वार्थानुमाने [T. 255b.] साध्यसिद्धिः सा
१. प्रतिज्ञादि । २. हेतोः। ३. व्याप्त्यादिसम्भवे । ४. [प्रती]तिहेतुता । ५. उपन्यासवैयर्थ्यप्रसन्नात् । ६. साधनम् ।
HHHHHHHHETTE
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org