________________
७२
हेतुबिन्दुटीका। धननिबन्धना स्यात् ? । यश्चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य - काग्निः काग्निः ? ' इत्यग्निं पर्येषते' स प्रदेशे धूमदर्शनमात्रादेवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात् ? । अथ कदाचिदसौ दृष्टस्तत्रेति परार्थेऽप्यस्योपादानं तदा 5 दध्यादिकमपि भुत्तवा कदाचिद् धूमादग्निं प्रतिपन्नवानिति किन्न दधिभोजनादेरपि कादाचित्कस्योपादानम् ।
यत् पुनरुक्तम् ' आगमः प्रतिज्ञा ' इति, तत्र यदि वादिवचनमेवागमस्तदा तत एव साध्यसिद्धेहेत्वाद्युपादानमनर्थकम् ।
अथ प्रतिज्ञार्थस्यागमे पाठादागमः प्रतिज्ञा, तदा न कचिदागमे 10 पठ्यते अत्र प्रदेशेऽग्निरिति [S. 76b .] कथमागमत्वं प्रतिज्ञाया:?।
'हेतुरनुमानम् ' इत्यप्ययुक्तम् , न हि पक्षधर्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात् । दृष्टान्तोऽपि न सवः प्रत्यक्ष इति कथं दृष्टान्तः प्रत्यक्षम् ' भवेत् ? । उपमानं तु प्रमाणमेव न
भवति, कथं तद्यापार उपसंहियेत निगमनेन ? । यदि चावश्यं 15 दृष्टान्ते दृष्टसामर्थ्यो हेतुईम्मिण्युपनेयः तदोपनय एवास्तु किं ‘कृतकत्वात् ' इति पक्षधर्मनिर्देशेन ?, स एव दृष्टसामर्थ्य हेतुमुपसंहरिष्यति पक्षधर्मतां च दर्शयिष्यतीति न किश्चित्तेन । ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः
पुनर्वचनं कुतो निगमनं भविष्यति ? इत्याह - " इति " त20 स्माद् “ इयानेव " पक्षधर्मसम्बन्धवचनमात्रात्मकः [T. 256a.] साधनवाक्ये “ प्रयोगो ज्यायान् ” न पश्चावयवात्मक इति स्थितम् ।
[$ ८. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः । ]
अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परो25 पगतः [S. 77a.] 'पूर्व हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्त: ' इति क्रमनियमोऽपि न कश्चित् । कुतः ? सर्वथा यदि पूर्व हेतुः पश्वाद् व्याप्तिः अथ पूर्व व्याप्तिः पश्चात् पक्षधर्मः प्रयुज्यते, तथापि गमकत्वात् । १. °षते सधूमप्रदेशदर्शन° - T। २. स्वार्थानुमाने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org