________________
हेतोनिधाप्रयोगखण्डनम् ।
[ $९. हेतोस्त्रिधाप्रयोगस्य खण्डनम् । ] ननु तस्य द्विधा प्रयोग इत्ययुक्तमुक्तम् । यतस्त्रिविधो हेतुःअन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति नैयायिकाः, ततस्तस्य त्रिघा प्रयोगः - साधयेण वैधhण साधर्म्यवैधाभ्यां चेति वक्तव्यमित्यत आह – “ सम्बन्धवचनेऽपि ” न केवलं क्रमनियमो 5 न युक्तः किन्तु “ अर्थ भेदोऽपि न कश्चिद् ” उभयत्रापि त्रिरूपसद्भावात् । ततः सर्व एव हेतुरन्वयव्यतिरेकी , न त्वन्वयी व्यतिरेकी वा कश्चिद्धेतुरस्तीति भावः । तत् कुतस्त्रैविध्यं प्रयोगस्य स्यात् ? इति मन्यते । कुतः पुनरर्थभेदो नास्तीति ? चेत् , आह - " उभयथा " साधर्येण वैधर्येण च प्रयोगे यद्यपि विधि- 10 प्रतिषेधरूपतया धर्मभेदः [T. 256b.] प्रतीयते तथापि " तद्भावस्यैव " साधनधर्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां " ख्यापनात् ।। - ननु साधर्म्यप्रयोगे हेतुभावे [S. 77b.] साध्यस्य भावः, वैधर्म्य च साध्याभावे हेत्वभावः शब्दावगम्यते, न तादा- 15 त्म्यम् । तत् किमुच्यते 'तद्भावस्यैव ख्यापनात् ' ? इत्यत आह - " न हि ” इत्यादि । यदि साधर्म्यप्रयोगे तद्भावो नाक्षिप्येत तदा साधनस्य । अतत्स्वभावस्य भावे " किमिति " एकान्तेन " अवश्यन्तया " साध्यस्य भावः ?" । कादाचित्कस्तु भवतु नाम ? । ' यत् कृतकं तदनित्यम् ' इत्येकान्तभावश्च हेतौ सति साध्यस्य व्याप्त्या 20 साधर्म्यप्रयोगेऽभिधीयते । स च तादात्म्यमन्तरेणानन्तरस्य न सम्भवतीति सामर्थ्यात् तदाक्षिपति।
कथमिवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह - "कृतकत्वेत्यादि । यदि प्रयत्नानन्तरीयकत्वमन्तरेणापि कृतकत्वस्य भावादतत्स्वभावत्वम् अनित्यत्वेऽप्ययमेव वृत्तान्तः। 25 ततश्च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ वा निवृत्तिरिति कथं ततस्तत् [S. 78a.] १. एकान्तभावः । २. प्रयत्नानन्तरीयकत्वमन्तरेणापि अनित्यत्वस्य भावात् । ३. साध्य । ४. हेतोः।
५. हेतोः। ६. साध्यम् ।
१० हे. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org