________________
७४
हेतुबिन्दुटीका ।
प्रतीयते ? । नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यस्वस्य तेन साधनात्, तत्र च तादात्म्यसद्भावाद् अन्वयव्यतिरेकावनिवारिती अनित्यत्वकृतकत्वमात्रापेक्षया [T. 257a ] तु तादात्म्यविरहोऽस्याभिहित इति ।
"
5 नन्वग्निनिवृत्तावतत्स्वभावस्यापि धूमस्य निवृत्तिर्दृष्टाऽन्वयश्वेत्याह- "" कार्यस्य " इति । अन्वयव्यतिरेकयोर्हि प्रतिबन्धो निबन्धनम् तेन तयोः व्याप्तेः तदभावे तयोरप्यभावात् । तत्रार्थान्तरस्य धूमस्याग्नौ " तदुत्पत्तिलक्षणः प्रतिबन्धोऽन्वयव्यतिरेकनिमित्तम”स्तीति भवेतां तौ । यत्र त्वनर्थान्तरस्य तावुच्येते 10 तत्रावश्यं तादात्म्येन भवितव्यमित्यभिप्रायः । अत्रोदाहरणम् कृतकत्वप्रयत्नानन्तरीयकत्वयोर्विपर्ययेण नैकनिवृत्तावन्य
" यथा
अनयोरेव
6 -
"
निवृत्ति: " यत् प्रयत्नानन्तरीयकं न भवति [S. 78b.] तत् कृतकमपि न भवति' इत्येवंरूपा । यत एवं तस्मादन्वयव्यतिरेकयोर्यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे 15 च हेतोरवश्यमभावः इत्येकोऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयमाक्षिपति, स्वव्यापक प्रतिबन्धाक्षेपात् तस्यापि चेतरेण" व्याप्तेः । तस्मादुभयत्र वैरूप्यप्रतीतेरेकस्य शब्दे (ब्द)तोऽपरस्यार्थत इति सम्बन्धवचनेऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धं ततस्तस्य द्विधा प्र20 योग: साधर्म्येण वैधर्म्येण च । न तु साधर्म्यवैधर्म्याभ्यामपि तदर्थस्यान्यतरेणैव [T. 257b.] प्रकाशनात् ।
—
"
सर्व्वे हेतुरन्वयव्यतिरेक्येव वस्तुतो न कश्चिदन्वयी व्यतिरेकी वा नामेत्येतदुपसंहरन्नाह - " इति नैकत्रान्वयमुखेन व्यतिरेकमुखेण [S. 79a.] वा साधनवाक्ये " द्वयो "रन्वयव्यतिरेकयोः 25-“ प्रयोगः " साक्षाच्छब्देन प्रतिपादनमिष्यते, " वैयर्थ्यात् " प्रतीतप्रत्यायने प्रयोजनाभावात् ।
Jain Education International
?
१. न तु समग्र पदार्थस्वभावस्य । २. प्रयत्नानन्तरीयकत्वेन । ३. प्रयत्नानन्तरीयकः शब्दः कृतकवात् अनित्यत्वाच्च । ४ प्रयत्नानन्त । ५. अन्वयव्यति । ६. प्रयत्न । ७. हेतु । ८ रूपाव्यतिरेक (?) । ९. प्रतिबन्धस्य । १०. अन्वयेन व्यतिरेकेण वा ।
For Private & Personal Use Only
www.jainelibrary.org