________________
कार्यहेतावन्वयनिश्चयनिरूपणम् । खभावेन चातद्रूपस्यान्ययोगेऽपि न तद्रूपता । नहि भावाः प्रतिनियतरूपत्यागेनान्ययोगेऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस्तेषां पूर्वरूपं नाशयति विनाशहेत्वयोगाद् वक्ष्यमाणकात् । नाऽप्यपूर्वमुत्पादयति तस्य ततोऽर्थान्तरत्वप्रसङ्गात् । नहि तेषु निष्पन्नेष्वनिष्पन्नो भिन्नहेतुको वा तत्वभावो युक्तः। 5 अयं हि भेदो [T. 237b.] भेदहेतुर्वा विरुद्धधर्माध्यासः कारण भेदश्च । ततश्चेत् न भेदः, अन्यनिमित्ताभावात् एकं द्रव्यं विश्वं स्यात् इत्यादि प्रसज्येत । प्रतिभासभेदोऽपि हि इतरेतराभावरूपतया विरुद्धधर्माध्यासतां नातिकामति । ततश्च पूर्वके वस्तुनी [S. 50b.] तवस्थे एवेति न तयोरन्ययोगेऽपि कार्यकारण-10 रूपतापत्तिः।
अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वादन्यस्तद्भावः कथं न वैयर्थ्यमनुभवेत् ? । कार्यकारणबुद्धी अपि तद्भावभावित्वमात्रनिवन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य कार्यकारणरूपविवेकिना रूपान्तरेणाप्रति-15 भासनात् । तथाविधस्यापि ग्रहणकल्पनायामतिप्रसङ्गः। अनुपलब्धिलक्षणप्रासतायां कथं कार्यकारणभावबुद्धी तन्निबन्धने ? । नहि तद् अर्थान्तरं खसत्तामात्रेण तद्बुद्धी प्रवर्तयति । सदा सनिहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात् । न च विशेषणमगृहीतं [S. 51a.] विशेष्ये खविशिष्टप्रत्ययनिबन्धनमित्ययुक्ताऽस्यानुप-20 लब्धिलक्षणप्रासता न च दृष्टस्याप्यनुपलक्षणं युक्तम् , कार्यकारणबुद्धयोस्तनिबन्धनतोपगमात् । न हि यन्निमित्तो योऽन्यत्रातहुद्धिभाजि तयवसाय: स तदनुपलक्षणे युक्तः । देवदत्ते दण्डिव्यवसायवद् दण्डानुपलक्षणे । न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायामनवस्था[T. 238a.]- 25 प्रसक्तेः । कार्यकारणभावाभ्युपगमे कार्यकारणाभ्यामसहभाविता सद्भावस्य । ततश्च कार्यकारणकाले तस्यासन्निधानात् कथं कार्य
१. तस्योपलब्धिलक्षणप्राप्तत्वं स्यात् तद्विपर्ययो वा । तत्राद्ये आह । २. रूपान्तरेणाप्रतिभासमानस्य । ३. द्वितीये आह । ४. युक्तः दण्डेन दण्डिव्यवसायाभावे देव - T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org