________________
हेतुबिन्दुटीका। प्रतिबन्धाभावात् । प्रतिबन्धे वा तत्कार्यता तत्कारणता वा स्यात् । तत्कार्यत्वे, नाग्नीन्धनसम्पर्कानन्तरं धूमजन्म स्यात्, तभावाभावानुविधानादेव चास्यापि तत्कार्यत्वम् । तच धूमेऽपि समानम् । नापीन्धनादिकारणत्वम् अदृश्यात्मनः , इन्धनादेः स्व5 हेतोरेव वृक्षादेर्भावदर्शनात् । तत्रापि तथाभावकल्पनायां त
देवोत्तरं वाच्यम् । पुनश्चोये स एव परिहारोऽनवस्था च । ए. तेनैकसामय्यधीनताऽपि प्रत्युक्ता। तदन्वयव्यतिरेकानुविधानादेव च धूमस्य तत् कारणं कल्पेत । तचाम्यादावपि तुल्यम् ।
तदपि तत्र कारणमस्तु इति चेत्, न, अग्नयादिभावेऽवश्य10 म्भाविनोऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् [S. 49b.] कारणभावकल्पनायाः । यथा अग्नीन्धना[T. 237a.]देरेवान्यतराभावे अभवतः । भवतु वाऽन्यस्यापि तद्भावे नियतसन्निधेः कारणता । न तु तावतान्यादेः
कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः 15 स्यात् । नहि सर्वसत्त्वकाधिपत्यजनितत्वेऽपि जगद्वैचित्र्यस्य
दृष्टकारणहानितस्तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिरित्यलमतिप्रसङ्गेन। - किंरूपः पुनरसो कार्यकारणभावोऽनुपलम्भसहायप्रत्यक्षनिबन्धन इत्याह - " तद्भावे भावः तदभावेऽभावश्च ” इति । य एव हि 20 कारणाभिमतस्य भावे भाव एव । कार्यत्वेनाभिमतस्य भावः।
" तदभावे " कारणत्वाभिमतस्याऽभावे " अभाव एव " कार्यत्वेनाभिमतस्याभावश्च । स एव कार्यकारणाभावो नान्यः ।। .. स हि ताभ्यामन्यो भवन स्वभावतोऽप्रतिपन्नकार्यकारणरूपयोर्वा भवेद् , यद्वा खभावेनैव कार्यकारणात्मनोः ।यद्याद्यः पक्षः 25 तदा सर्वत्रैवाकार्यक(का)रणभूतेऽपि वस्तुनि [S. 50a.] भवेत् तनियमकारणाभावात् । ततः सर्वं सर्वस्य कार्य स्यात् ।
१. तेषामन्यादीनां तदहश्यात्मकं वस्तु कार्यम् । २. वृक्षादिभ्योऽपीन्धनाद्युत्पत्तिकथनेऽदृश्यात्मन एव कस्यचित् कारणत्वकल्पनायाम् । ३. अदृश्यं । ४. धूमस्य । ५..अवधारणगर्भमिदं वाक्यमिति तथैव
व्याख्याति । ६. वहः। ७. न पुनरकारणाभिमतस्य भावे । ८.धूम । ९. न पुनरकारणाभिमतस्याभावे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org