________________
कार्यहतावन्वयनिश्चयनिरूपणम् ।
[ $ ३२. कार्यहेतावन्वयनिश्चयनिरूपणम् । ] एवं खभावहेतौ [T 236a.] विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितोऽन्वयनिश्चयं प्रतिपाद्य कार्यहेतौ प्रतिपादपन्नाह - " कार्यहेतौ " अन्वयनिश्चयः इति प्रकृतम् । कः पुनरसी कार्यकारणयोर्भावः । “ कार्यत्वं " " कारणत्वं " च । तस्य या “ सिद्धिः " 5 प्रतीतिः सा कार्यहेतावन्वयनिश्चयः । यथा च कार्यकारणभावसिद्धिर्भवति तथोपदर्शयन्नाह - " यथा ” इत्यादि । यथाशब्द उपदर्शनार्थः । “इदं” धूमादिकम् “अस्य” अग्नेः "उपलम्भे” सति “उपलभ्यत" इति सम्बन्धः। अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारमाह । न च केवलं प्रत्यक्ष कार्यकारणभावमसन्दिग्धं साधयति, 10 किन्तु प्राक्प्रवृत्तानुपलम्भसहायमिति [S. 48b.] दर्शयितुमाह - " उपलब्धिलक्षणप्राप्तमनुपलब्धम् " इति। यदि तद धूमादिकमुपलब्धिलक्षणप्राप्तं सत्खन्यै(न्ये)खूपलम्भप्रत्ययेषु दृश्यात्मकं सत् नोपलब्धं भवति अम्यादिसामग्रीसन्निधानात् प्राक् तादात्म्यादिसामच्यामुपलभ्यमानायामुपलभ्यमानं तत्कार्य सिध्यति । न तूपलम्भ-15 प्रत्ययान्तरवैकल्यादनुपजातोपलब्धियोग्यरूपं सत् , तद्देशसन्निहितमप्यनुपलब्धिलक्षणप्राप्ततयाग्यादिसामग्रीसन्निधानात् प्रागनुपलब्धमिति । उपलब्धिलक्षणप्राप्तस्य चानुपलम्भे नाग्यादिसामग्रीसन्निधानात् प्रागन्यत आगमनं , तद्देशकालसंन्निहितात् कटकुट्या[T. 236b.]देरुत्पत्तिः, तद्देशे चाऽसन्निधानमिति, त्रि- 20 तयमपाक्रियते । एतावद्भिश्च प्रकारैरतत्कार्यता भवन्ती भवेत् । ततोऽनुपलम्भेनाऽतत्कार्यताशङ्कानिरासाद् तद्भावे भावग्राहिमत्यक्षनिबन्धनः कार्यकारणभावोऽसन्दिग्धः [S. 49a.] सिध्यति ।
न चाग्नीन्धनादिभावे नियतसन्निधेरदृश्यात्मनः कुतश्चित् धूमस्य भावः स्यात् इत्याशङ्कनीयम् । अग्नीन्धनादिभेदानुविधा- 25 नाद धूमस्य । चन्दनागुरुकर्पूरकेशोर्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनादल्पमह दिन्धनविकारकारिणश्चाग्नेस्तदनुरूपस्य । न चाग्नीन्धनादिसन्निधावदृश्यात्मनो नियतसन्निधानता युक्ता ,
१. उपलक्षणार्थः -T. २. अल्पमहदिन्धनरूपस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org