________________
बन्दुक
[ $ ३१. बाधकप्रमाणादेव स्वभावहेतौ साध्यसाधनतादात्म्यम् । ]
5
का पुनरसौ वस्तुतस्तद्भावता यया हेतुभूतया साध्यधर्मस्य साधनधर्मभावमात्रानुबन्धः सिध्यति ? इत्याह - " सा " वस्तुतस्तद्भावता " साध्य”स्य " विपर्ययो " विपक्षः तत्र, " हेतोः " यद् " बाधकं प्रमाणं " तद्विपरीतधर्म्म प्रत्यवस्थापकम्, येने बाध्यमानो हेतुस्तत्र न प्रवर्तते, विरुद्धयोरेकत्र सहभावासम्भवात्, तस्य या " वृत्तिः " प्रवृत्तिः " बाधकप्रमाणवृत्तिः " तत्साध्यत्वाच्च वस्तुतस्तद्भावतायाः सा बाधकप्रमाणवृत्तिरुक्ता । तस्यां हि सत्यां [T. 235b.] विपक्षात् निवृत्तो हेतुः साध्यधर्म्मवत्येव 10 धर्मिणि वर्तते इति साध्यधर्मस्यानर्थान्तरस्य साधनस्वभावता सिध्यति । " तया च " वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्धः साध्यधर्मस्य सिध्यतीति [S. 47b. ] अन्वयनिश्चयः " " यत्र यत्र साधनधर्मस्तत्र तत्र साध्यधर्मः' इत्येवंरूपो जायते ।
66
૪
15 अत्रोदाहरणं " यथा - यत् सत् तत् क्षणिकमेव । " अवधारणेन व्यातिमाह । साधनधर्मभावमात्रानुबन्धस्य चैतद्रूपमाख्यातं, निमित्तान्तरमन्तरेण सत् इत्येव कृत्वा क्षणिकमित्युपदर्शनात् । स च वस्तुतस्तद्भावतया सिध्यतीति तत्सिद्धयुपायं बाधकप्रमाणवृत्तिं दर्शयति - " अक्षणिकत्वे " क्षणिकविपर्यये सति " अर्थ20 क्रियाविरोधात् " अर्थस्य - कार्यस्य क्रिया - निष्पत्तिस्तस्या विरोधात् " तल्लक्षणं ” साऽर्थक्रिया लक्षणं यस्य वस्तुत्वस्य " अर्थक्रियासामर्थ्यात्मनः तत्तथोक्तम् । अर्थक्रियया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते । “ तद् ” एवंविधं वस्तुत्वं " हीयते " निवर्तते, तद्विपर्ययरूपस्यासवस्याऽऽकर्षणात् । एतच्च बाधकं प्रमाणं व्यापका25 नुपलब्धिरूपमुत्तरत्रावसरप्राप्तं स्वयमेव वक्ष्यति । तदनया बा-धकप्रमाणवृत्या साध्यधर्मस्य [S. 48a.] वस्तुतः साधनधर्मस्वभावता सिध्यति । तया च वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्ध इति ।
"
०
१. सवा (रवा) ख्य हेतु विपरी सत्व (स्व) । २ येन साध्य० - T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org