________________
अभेदेपि साध्यसाधनभावः ।
व्यतिरिक्तायां चानित्यतायामवगतायां तत्रैव प्रवर्तताम्, किमिति नित्ये शब्दात्मनि । तेद्वा (डा) रेण प्रतिपत्तेः इति चेत्; तत् किमनेन व्यवधिना ? | वरमव्यवहितस्यैव प्रतिपत्तिरस्तु, तेनैवार्थित्वादिति । तदेतदतिप्रचच्र्यमानमतिगहनं सम्पद्यत इत्यास्तां तावत् ।
Jain Education International
४३
येsपि जैमिनीया मन्यन्ते ' येषामत्यन्तव्यतिरेकवन्तो धर्माः तेषामेवायं नैयायिकादीनां दोषः अस्माकं तु कथञ्चिद् भेदाभेदवतां धर्माणां तत्स्वभावतया नैष दोष: ' इति ; तेषामपि वस्तुतः साधनधर्म्मरूपतोपगमे साध्यधर्मस्य, कथश्चिद् भेदाभ्युपगमे न किञ्चित् [S. 46b. ] फलमुत्पश्यामः, साध्य- 10 साधनभावस्य कल्पितभेदद्वारेणाप्युपपत्तेः । न चैकात्म्ये कथश्चिदपि भेदो युक्तः; एकस्मात् स्वभावादभेदात् । ततोऽपि तयोः कथञ्चिद् भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रस ङ्गात् । तथा हि - धर्म्मयोस्तदेकस्वभावादपि भेदवतोस्तेन खभावेन कथञ्चिदभेदनिमित्तमभिन्नोऽपरः खभावोऽभ्युपगन्तव्यः, 15 तथा तेनाऽप्यपरः इत्यनन्तैव [T. 235a ] भिन्नाभिन्नस्वभावपरम्परा स्यात् । न च कल्पनाबुद्धावनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किमिति तत्कल्पनयाऽऽत्मानं विप्रलभन्ते भवन्तः ? । कथञ्चित् च भेदोपगमात् कथं भेदपक्षभाविनां दोषाणामनवसरः ? | यं चात्मानं पुरोधाय 'इमौ धम्म, अयं धर्मी 20 इति व्यवस्थाप्यते यदि तेन भेदस्तदा भेद एवेति कुतोऽनेकान्तवादः ? । अथाभेदः; तदा ' अयं साधनधर्मः, अयं साध्यधर्मः, धम्र्मी चायम्' इति कथं पारमार्थिकं तु (त्रि) तयं सिध्येत् ? । [S. 47a.] तस्मात् तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पना बुद्धी भेदवतामिव धर्मधर्मिणां प्रतिभासनात् साध्य- 25 साधनभावः । तन्मात्रानुबन्धस्तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन " वस्तुतस्तद्भावतया " इत्युक्तम् ।
१. अनित्यताद्वारेण । २. प्रपश्यमा० - T. ३. न केवलं धर्मिणः ।
For Private & Personal Use Only
5
www.jainelibrary.org