________________
हेतुबिन्दुटीका। सम्बन्धाभावस्य तद्वस्थस्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात् । समवायाद् वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्वप्यात्मादिषु वर्तेरन् । य एव हि कृतकत्वादेः शब्दे
समवायो [T. 234a.] यद्वलात् तत्रैव तद् वर्तते स एव नित्या5 भिमतेष्वपि, तस्यैकत्वेनोपगतत्वात् इत्यात्मादौ वृत्तिः कृतकत्वादेः केन निवार्येत ? । अथ ' य एवाभूत्वा भवनधर्मा भूत्वा चाभवनधर्माऽस्थिररूपो भावः तत्रैव कृतकत्वादयो धर्मा वर्तन्ते ' इति व्यवस्थाप्यते । सैव त_भूत्वा भवनखभावता
भूतस्य चास्थिरखभावता तविपरीतरूपसमारोपव्यवच्छेदविष10 यायाः कल्पनाबुद्धेर्निवन्धनं किं नेष्यते ? । [S. 45b.] तयैव परमार्थाभेदवतो र्मयोः साध्यम्मिणि वृत्तः किमन्तरालगडुना कृतकत्वादिना व्यतिरेकवता उपगतेन ? । तथा हि - न सत्तामात्रेण कृतकत्वादयो धाः साध्यधर्मप्रतिपत्तिनिबन्धनम् ,
तेषां सदा सन्निहितत्वेनानवरतं तद्धर्मप्रतीतिप्रसङ्गात् , किन्तु 15 विकल्पप्रतिभासिन एव । स च विकल्पः स्वप्रतिभासिनमेवा
कारं बहीरूपतयाऽध्यवसितमनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतोऽसंस्पर्शेऽपि तद्रूपस्य , परम्परया तदुपादानत्वात् । व्यतिरिक्तास्तु धस्तिदुत्पत्तिनिमित्तमात्रतया परिकल्प्यन्ते, तद् वरं यदेव तत्कल्पनानिबन्धनं तदेव 20 तथाविधविकल्पप्रसवनिमित्तमस्तु, तस्यावश्यमभ्युपगमनीयत्वात् , तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्मा इत्यलं तत्कल्पनया । अवश्यं च व्यतिरिक्ताऽनित्यताबारेणापि वस्तुन एवानवस्थायिनमात्मानं प्रतिपद्यते, [S. 46a.] [T. 234b.]
तदनुरूपार्थकृ(क्रि)यार्थितया प्रवृत्तः, अन्यथा व्यतिरिक्ताऽनित्यतया 25 नित्यत्वात् तवगमार्थित्वेनायमनित्यसाध्यार्थक्रियार्थी नित्यं शब्दादिकमाशङ्कमानः किमनित्यताविचारं प्रति आहितास्थः ।
१. भूत्वा भवनादिस्वभावतया । २. भिन्नेन । ३. परिच्छेद्यवस्तुन्यविद्यमानम् । ४. वस्तु० । ५. वि. कल्पोत्पत्ति निमित्तमात्रतया। ६. अभूत्वा भवनादिकम् । ७. तेषां कुतकत्वादीनां प्रतिनियते शब्दादौ वृत्तिकल्पना या निबन्धनम् । ८. अभूत्वा भवनादिकस्य । ९. अनित्यस्वभावानुरूपार्थक्रियार्थितया । १०. स्वभावभूधर्मानभ्युपगमे। ११. शब्दादेः । १२. नित्यशब्दाद्यगमास्थित्वे[न] । १३. किं अनित्यताब्यापार प्रति अहितं करोति ?-T.। १४. आहिता आस्था येन । कृतयत्न इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org