SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्वभावताम्यनिश्चयः । [२९. स्वभावहेतावन्वयनिश्चयः स्वप्रमाणायन्त: : 1 ] - तत्र स्वभावकार्यानुपलम्भानां पक्षधर्म्मनिश्चयस्तुल्योपायसाध्यतयाऽभेदेनैवोक्तः अन्वयव्यतिरेकनिश्चयस्य तु भिन्नोपायसाध्यतया भेदेनैव निर्देश: कार्य इति स्वभावहेतौ तावदन्वयनिश्चयं स्वप्रमाणनिबन्धनं दर्शयन्नाह " अन्वयनिश्चयोऽपि " न 5 केवलं पक्षधर्म्मनिश्चय उक्तः किन्त्वन्वयनिश्चयोऽपि " स्वभावहेतौ ” उच्यत इति शेषः । “ साधनधर्म्म "स्य यद् “ भावमात्रं " सत्तामात्रं मुद्गरादिनिमित्तान्तरानपेक्षं तस्य " अनुबन्धो " अनुगमनं व्यासि: तस्य " सिद्धिः" या स स्वभावहेतावन्वयनिश्चयः । कस्य [T. 233b.] साधनधर्म्मभावमात्रानुबन्धसिद्धि: ? । “ साध्यधर्म्मस्य " [S. 44b. ] 10 साध्यश्चासौ असिद्धत्वात् धर्म्मधम्मिसमुदयैकदेशत्वात् धर्मश्वेति तथोक्तः । यत्र यत्र साधनधर्म्मस्य भावः तत्र तत्र साध्यधर्म्मस्यापि निमित्तान्तरानपेक्षो भाव इत्येतस्यार्थस्य सिद्धि: स्वभावहेतावन्वयनिश्चयः । कथं पुनः साध्यधर्मः साधनधर्मभावमात्रमनुबध्नाति । ? " तद्भावतया ” म साधनधर्मो भावः भावो यस्य तस्य भावतया तद्भावतया । यो हि साधनधर्म्मः साध्यधर्मस्य स्वभावः स कथं तं नानुबध्नीयात्, नीरूपत्वप्रसङ्गात् ? । 66 - ४१ [ $ ३०. स्वभावहेतावैक्येपि साध्यसाधनभावव्यवस्था । ] ननु तत्खभावत्वे भेदाभावात् कथं साध्यसाधनभावः ? 20 · इत्याह- वस्तुतः " परमार्थतः । साध्यसाधनसंकल्पकाले तु परम्परया तत्तद्व्यावृत्तपदार्थनिबन्धनायां कल्पनाबुडी [S. 45a.] भेदेन प्रतिभासनात् साध्यसाधनभावो न विहन्यते । न ह्यसौ पारमार्थिकं साध्यसाधनधर्म्मयोर्द्धर्मिणश्च कृतकत्वादी भेदमवलम्बते, सम्बन्धाभावेन साध्यसाधनभावायोगात् । ४ स्व- 15 For Private & Personal Use Only एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न तस्यापि ततोऽर्थान्तरत्वे 'अयमनयोरस्मिन्नर्थे समवायः' इति " 25 १. साध्यधर्मः । २. साधनधर्मम् । ३. धनविकल्प T ४ साध्यसाधनभावः । ५. श्रयते । ६. कृतकत्वानित्यत्वाभ्या म् । ६ हे. Jain Education International www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy