________________
हेतुषिन्दुटीका । " दर्शनमेव प्रमाणम्” इत्याख्यानात् प्रमाणमेव फलमिति सूचितम्, [S. 43a.] तस्यार्थप्रतीतिरूपत्वात् । तथा, तस्य द्विधा प्रयोग इति वक्ष्यमाणत्वात् परार्थानुमानं कथयिष्यते, तस्य त्रिरूपलिङ्गाख्यानरूपत्वात् । सङ्केपतश्चानुमानव्युत्पादनमप्यभिमतम् । तच 5 सर्वत्रास्त्येवेति कस्मात् " अनुमानव्युत्पादनार्थम् ” इत्युक्तम् । ..
सत्यम् , प्राधान्यात् तु तदहणम् । तथा हि - प्रधानपुरषार्थोपयोगिनस्तत्त्वस्य चतुरार्यसत्यलक्षणस्यानुमानत एव निश्चयात् तस्य प्राधान्यम् । तथा प्रत्यक्षेऽपि विषये विवादसम्भवे, नानुमानादन्यनिर्णयनिबन्धनम् इत्यतोऽप्यस्य प्राधा10 न्यम् । प्रवर्तकत्वाच प्राधान्यमस्य । तथा हि - यदनुभूतफलं सु
खदुःखसाधनम् , अनुभूयमानफलं वा दृश्यमानं न तत्प्रवृत्तिविषयो निष्पन्नत्वात् फलस्य । तस्माद् यदनागतफलं सुखदुःखसाधनं प्रत्यक्षमपि तत्राप्यनुमानमेव प्रवर्तकम् । न हि तस्यानागते सु
खदुःखे प्रति योग्यतां प्रत्यक्षं निारयति, फलस्य [S. 43b.] 15 परोक्षत्वात् । तदुक्तम् - " न ह्यप्रत्यक्षे कार्ये कारणभावगतिः” इति ।
तस्मात् पूर्वानुभूतसुखदुःखसाधन[T. 233a.]साधात् प्रत्यक्षविषयस्यापि वस्तुनोऽनागतफलयोग्यतानिश्चयः न प्रत्य
क्षतः । तथा चाह -" तद्यथादृष्टसाधात् तथाप्रसाधितं नानुमेयतामतिपतति" 20 इति। कथं तर्हि द्वयोरपि प्रवर्तकत्वम् ? -" न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते " इत्युक्तम् । सुखदुःखसाधनस्य जलानलादेःखरूपस्य प्रत्यक्षतःप्रसिद्धः, फलमनागतं प्रति योग्यता
या अनुमानत इत्युभयोरपि प्रवर्तकत्वम् । सम्यग्ज्ञानपूर्वकत्वं च 25 हिताहितप्राप्तिपरिहारयोरुक्तम् न त्वनागतफलं प्रति योग्यतायाः
प्रत्यक्षतोऽनिश्चयात् । [S. 44a.] न ह्याद्गर्शिनां भाविफलयोग्यतायास्ततो निश्चयः, ततः प्राधान्यानुमानग्रहणमित्यलमतिविस्तरेणेति।
१. प्रत्यक्षादौ । २. — सङ्केपेणैव प्रत्यक्षव्युत्पादनं न विस्तर तः' इत्याशङ्याह । ३. दुःख-समुदयमार्ग-निरोधा; । ४. वस्तु । ५. अन्यत्र । ६. सुखदुःखहेतुतया । ७. उत्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org