________________
हेतुबिन्दुटीका। नीलसन्तानमेकमर्थ स्थिररूपं तत्साध्यां चार्थक्रियामेकात्मिकामध्यवस्यन्तीति प्रामाण्यमप्युत्तरेषामनिष्टमेवेति कुतोऽनेकान्तः ? इति दर्शयन्नाह - " साधारणे हि " इति । तत्सन्तानवर्तिनां सर्वक्षणानामेकत्वेनाध्यवसितानां व्यवहर्तृभिर्यत् साधारणं प्र5 तिक्षणमन्यान्यकारणतया विभिन्नमपि परमार्थतो विपर्यासादेकतयाऽभिनिविष्टं रञ्जनादिकं नीलादिककार्य तत्र “न तेषाम्” उत्तरेषां ज्ञानक्षणानां “सामर्थ्यश्स्यार्थप्रापणशक्ते"र्भेदः” । पूर्वप्रत्यक्षक्षणविषय एव तेभ्योऽपि प्रवृत्तेराद्यस्यैव तंत्र प्रामाण्यम् । तथा
हि - अर्थक्रियार्थिनां तत्साधनप्रापणसमर्थे ज्ञाने प्रमाणव्यवहारं 10 [T. 231b.] कुर्खतामविकुवधियामर्थक्रियासाधनभेदादेव प्रामाण्य
भेदव्यवहारो ज्ञानेषु युक्तः [S. 41b.] अन्यथा स्मृत्यादेरपि प्रामाण्यप्रसङ्गः कथमपाक्रियेत ?, आद्रियेत वा निष्फला प्रमाणव्यवस्था प्रेक्षावता इति ।
केषामिव साधारणे कार्ये न सामर्थ्यभेदः ? इत्याहे - “अप15 रापरे " च ते “धूमा"श्च तैः "प्रमिताश्च ते “सन्निकृष्टामयश्च तेष्विव
तद्विषयाणामिव "अनुमानज्ञानानाममिमात्रसाध्येऽर्थे” सन्धुक्षणादिके वाञ्छिते तदर्थक्रियासाधनप्रापगव्यक्तिभेदाभावात् यथा प्रामाण्यभेदो न युक्तो विदुषां तथाऽत्रापि । यदा तु पश्चतपस्तसुकामो
भवति तदाऽपरापरधूमप्रमितसन्निकृष्टाग्निविषयाणामप्यनुमानानां 20 सामर्थ्य भेदात् प्रामाण्यमनिवारितमेव ।
[$२७ विकल्पप्रामाण्यनिरासस्य फलितार्थः । ] तदेवं ' यथा नीलं दृष्टा नीलमिति ज्ञान(म्)' इत्युदाहरणे नीलविकल्पस्य प्रामाण्यं निराकृत्य प्रकृते योजयन्नाह - "एतेन" नीलस्वलक्षणदर्शनोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्य25 निराकरणेन ।
__ " तन्नेष्टत्याद् विकल्पस्याप्यर्थरूपोपकारिणः।" [ श्लोक० प्र० १११ ] इति ब्रुवता कुमारिलेन प्रदे[S. 42a.]शादिदर्शनोत्तरकालभा१. कार्ये । २. इत्याह-"अपरापरधूम' इति । "अपरापरे" च-T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org