________________
धारावाहिकशानचिन्ता। [ 5 २६. धारावाहिकक्षानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये । ]
यदैकस्मिन्नेव नीलादिवस्तुनि [S. 40a.] धारावाहीनीन्द्रियज्ञानान्युत्पद्यन्ते तदा पूर्वेणाभिन्नयोगक्षेमत्वाद् उत्तरेषामिन्द्रियज्ञानानामप्रामाण्यप्रसङ्गः । न चैवम् , अतोऽनेकान्त इति प्रमाणसंप्लववादी दर्शयन्नाह - " पूर्वप्रत्यक्षक्षणेन ” इत्यादि । एतत् परि- 5 हरति - “न”, उत्तरेषां प्रामाण्यप्रसङ्गः। कुतः ? । “ नानायोगक्षेमत्वात् ” । तथा हि - प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियानुष्ठानलक्षणश्च क्षेमः परिपालनरूपो भिद्यते । ततो विपक्षे वृत्त्यभावात् न हेतुरनैकान्तिकः। कदा नानायोगक्षेमत्वम् । "क्षणविशेषसाध्यार्थवाञ्छायाम् ”। यदा क्षणविशेषसाध्येऽर्थे हिताहित- 10 लक्षणे वाञ्छा प्राप्तिपरिहारेच्छा योगिनां परोपकारमुद्दिश्य भवति कस्यचित् कथञ्चित् क्वचिदुपयोगात् तदा। यथा दर्शनमार्गे दुःखे धर्मज्ञानक्षान्तिईमानामनुशयानां वासनां निरोधयति, तविरुद्धाशयोत्पादनात्। दुःखे धर्मज्ञानं केशविविक्ततालक्षणां निर्वाणप्राप्तिमुत्पादयति, [S. 40b.] अनुशयविरुद्धाशयदायों-15 त्पादनात् । तत एषां ग्राहकाणि परचित्तज्ञानानि पृथगेव प्रमाणानि । [T. 231a.] परहिताधानदीक्षावतां च समस्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मनां भगवतां कश्चिदेवार्थक्षण: कस्यचिदेव परार्थस्या ग्राहको विवन्धको वेति सर्वभावान् प्र. तिक्षणं वीक्षमाणानामध्यक्षचेतसां तद्विषयक्षणानां भिन्नार्थक्रि- 20 यासूपयोगतो नानायोगक्षेमत्वात् । तद् यदि प्रतिक्षणं क्षणविवेकदर्शिनोऽधिकृत्योच्यते तदा भिन्नोपयोगितया पृथक् प्रामाण्यात् नानेकान्तः । अथ सर्वपदार्थेष्वेकत्वाऽध्यवसायिनः सांव्यवहारिकान् पुरुषानभिप्रेत्योच्यते तदा सकलमेव [S. 41a.]
१. योगिज्ञानानि क्षणविवर्तलक्षकाणीति कृत्वा न एकयोगक्षेमाणि , विवक्षितदेवदत्तादेः प्रथमः क्षणो घायोग्यः द्वितीयस्तु मनागयोग्यः तृतीयस्तु योग्य इति ज्ञायते योगिना । ततश्च क्षणाः भिन्नाः अर्थक्रिया च भिन्ना। २. ज्ञानक्षणस्य । ३. योगिनि । ४. बौद्धमते। ५. अवज्ञाकारिणि म्लेच्छादौ संसारिस्कन्धे । ६. [धर्मज्ञा]नेन शान्तिः । समर्थन यत् सह्यते इत्यर्थः। ७. क्लेशजननशक्तिम् । ८. वैराग्यज्ञानम् । ९. धर्मज्ञानक्षान्त्यादिचित्तानाम् । १०. योगिनः सत्कानि । ११. कञ्चित् परचित्तक्षणं दृष्टा भगवान् तस्यैवानुग्रहाय प्रवर्तते । कचित्तु दृष्टा औदासीन्यमालम्बते । कञ्चित्त्ववयोध्य निग्रहाय । १२. प्रत्यक्षणाम् -T,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org