________________
| हेतुबिन्दुटीका। षेधरूपतयोपपत्योर्भेदः। यदा " कार्यतस्तद्विषयत्वात् ” इति यदुक्तं तदेवोपचयहेतुव्याजेन स्फुटीकृतम्।
__ [ ६ २५. विकल्पस्य दर्शनात् पृथक्प्रामाण्याभावः।]
T. 230a.] यदि नाम तद्ध्यवसायेन वस्तुन्येव पुरुषस्य प्र5 वृत्तिस्तथाप्यनधिगतसामान्यग्राहिणोऽस्य दर्शनात् पृथक् प्रामाण्यं किमिति नेष्यते ? इति चेत् ; आह - “ प्रवृत्तौ ” खलक्षण एव सत्यां " प्रत्यक्षेण " आलोचनाज्ञानाख्येन “ अभिन्नयोगक्षेमत्वात् "। योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः , क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम् । अभिनौ योगक्षेमावस्यति स 10 तथोक्तः । तत्र विकल्पस्य निर्विकल्पप्रत्यक्षेणाभिन्नो योगः स्व
लक्षणाध्यवसायतः । अभिन्नः क्षेम आलोचनाविज्ञानादिव विकल्पादपि खलक्षण एव प्रवृत्तेः । अयमस्याभिप्रायः - यदि विकल्पो निर्विकल्पचेतसः प्रमेयान्तरविषयस्तदा तत्रैव पुरुषं प्रवर्तयतु तत्साध्यामर्थक्रियामधिगन्तुम् । नैव वा प्रवर्तयेत् , त15 द्विषयत्वाभिमतस्य सामान्यस्याभिन्नज्ञानलक्षणाया एवार्थक्रि
याया उपगमाद् [S. 39b.] विकल्पोदयादेव च तत्सिडेः। नहि नीलानुभवात् प्रमेयान्तरविषयाः पीतादिप्रत्ययाः पुरुषं नीलवस्तुनि प्रवर्तयन्ति, साधितार्थक्रिया वा कचिदपीति । तस्मादालोचनाज्ञानान्नैवायं प्रमेयान्तरविषयः । विशेषेण यैरेवं व्या20 ख्यायते -
"निर्विकल्पकबोधेन द्वयात्मकस्यापि वस्तुनः।
प्रहणम् " [श्लोक० प्र० ११८] हति । ततो नीलदर्शनस्यैव निर्विकल्पस्य प्रामाण्यं युक्तम्, न तदभिन्नोपयोगस्य [T. 230b.] स्मृतेरिव विकल्पस्यापि दर्शनात् 25 पृथगेव' । अन्यथा निष्फलां प्रमाणान्तरकल्पनां कुर्वतः स्मृतीच्छाद्वेषप्रयत्नादि प्रमाणमनुषज्यत इति प्रमाणानामियत्ता विशीर्येतेति।
१. युक्त्योः । २. अत्र 'न' कारस्योपरि प्रतावेव ३' इति लिखितं वर्तते । ३. विशेषेण तेषां मते नैवायं प्रमेयान्तरविषय इति संबंधः । ४. प्रामाण्यं युक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org