________________
स्वलक्षणस्यैव वस्तुत्वम् । याया अनुपलब्धेः प्रामाण्यम् इति चेत् ; तत्रापि प्रधानादिविकल्पस्यैव भावानुपादानतया साध्यत्वात् तस्या अपि वस्त्वधिष्ठानताऽस्त्येवेत्यदोषः। , अथ वस्त्वधिष्ठानैव प्रमाणव्यवस्थेति कुत एतद् ? इत्याह --" अर्थक्रियायां " सुखदुःखलक्षणायां यद् [S. 38a.] “ योग्यं " शक्तं 5 " तद्विषयत्वात् तदर्थिनाम् " अर्थक्रियार्थिनां " प्रवृत्तेः " प्राप्तित्यागलक्षणायाः। यदि नामार्थक्रियायोग्ये तदर्थिनां प्रवृत्तिस्तथापि कथं वस्त्वधिष्ठाना प्रमाणव्यवस्था ?, अर्थक्रियायोग्याधिष्ठाना हि तथा सति स्यात् इति चेत् ; आह - “ अर्थक्रियाश्यां यद् “ योग्यं " त"लक्षण"मेव " हि वस्तु " । ततोऽर्थक्रियायोग्याधिष्ठानत्वेन 10 वस्त्वधिष्ठानत्वं कथं न स्यात् इति भावः । [T. 229b.]
इदं च वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनमनधिगते स्वलक्षण इत्युक्ते कदाचित् परो ब्रूयात् - वस्तुमात्रनिबन्धना हि प्रमाणव्यवस्था न स्वलक्षणाश्रयैव । ततो यद्यप्यनधिगतं स्वलक्षणं नाधिगच्छति तथाप्यनधिगतवस्तुरूपमधिगच्छतो विक- 15 ल्पस्य प्रामाण्यं भविष्यतीति तदसिद्धतोद्भावनार्थमुक्तम् - " अनधिगतवस्तुरूपे”त्यादि । [S. 38b.] तदसिहतोद्भावने चानधिगतवस्तुरूपाधिगन्तुरेव प्रामाण्यं नेतरस्येति कुतः ? इति पर्यनुयोगे " अर्थक्रियायोग्येत्यादि उक्तम् । तथा च वस्तुविषयमपि प्रा. माण्यं ब्रुवता स्वलक्षणविषयमेवोक्तं भवति, तस्यैवार्थक्रियासा- 20 मर्थ्यलक्षणत्वात्, सामान्यस्य च तद्विपरीतत्वात् इति मन्यते ।
पुनरप्यनुभवोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यमपनेतुमुपचयहेतुमाह - " ततोऽपि " यथोक्ताद् विकल्पाद् न केवलं नीलस्वलक्षणानुभवाद " वस्तुन्येव " स्खलक्षण एव " तदध्यवसायेन ” खलक्षणाध्यवसायेन अन्यथा तत्र प्रवृत्त्ययोगात् 25 " पुरुषस्य प्रवृत्तेः " अधिगते खलक्षणे तत्सामर्थ्यजन्मा विकल्पो न प्रमाणमिति सम्बन्धः । पूर्वमनधिगतवस्तुरूपानधिगतेरप्रामाण्यमुक्तम् । अधुना त्वधिगतस्यैवाधिगमादिति [S. 39a.] विधिप्रति१. प्रधानविकल्पो वस्तुकारणो न भवति, तदभावेऽपि भावात् , खरविषाणादिविकल्पवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org