SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ हेतु बिन्दुटीका । न किश्चिदसावनुकरोति । " स स्मृतिरेव " । कुतः ? “ कार्यतस्तद्विषयत्वात् " न परमार्थतः । कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनम्, तदध्यवसायश्च । यतश्च कार्यतः तद्विषयत्वात् स्मृतिरेवातो " न प्रमाणम् " दर्शनबलोत्पन्नो विकल्पः । तथा हि - स्मृतेरप्यनु5 भूतस्वलक्षणांशविषयाया न परमार्थतस्तद्विषयत्वम् । स्वलक्षणस्येन्द्रियबुद्धाविव स्फुटरूपतया स्मृतावप्रतिभासनात् । किन्तु यथोक्तात् कार्यत एव । तच्च विधिविकल्पेऽपि समानमिति कथमसैा स्मृति स्यादिति । ३४ [ $ २३. अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम् । ] तत्रैतत् स्यात् - नन्वनुमानविकल्पः स्मृतिरूपोऽपि प्रमाणमिष्यते । [S. 372.] तथा हि - यदेवानग्निव्यावृत्तं वस्तुमात्रं महानसादावनुभूतमासीत् तदेव प्रदेशविशेषे धूमदर्शनात् स्मर्यते । तद् विधिविकल्पोऽपि प्रमाणं भविष्यतीत्यत आह " अनधि - गतस्य " वस्तु"नो “रूप”स्य " अनधिगतेरिति ” । एवम्मन्यते - यत् 15 महानसादावनग्निव्यावृत्तं वस्तुमात्रं प्रागनुभूतं न तत् तद्देशादि - सम्बन्धितयैवानुमानविकल्पेन [T. 2292. ] स्मर्यते किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया । ततः साध्यधम्मिदृष्टान्तधमिग्राहिदर्शनद्वयानधिगतस्यानग्निव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेनाधिगमाद् युक्तमस्य प्रामाण्यम् । न तु दर्शनपृष्ठ20 भाविनो विकल्पस्य तद्विपरीतत्वादिति । [ S. 37b. ] 10 क [ $ २४, प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं, स्वलक्षणस्यैव च वस्तुत्वम् । ] यदि नामानधिगतं वस्तुरूपं नाधिगच्छति, प्रमाणं तु स्मान्न भवतीति चेद् आह " वस्त्वधिष्ठानत्वात् " इत्यादि । वस्त्वधिष्ठानत्वं च “ प्रमाणव्यवस्थायाः " प्रमाणव्यापारविषयमभिप्रेत्यो25 च्यते नालम्बनलक्षणम्, अन्यथाऽनुमानस्य परिकल्पितसामान्यालम्बनतया वस्त्वधिष्ठानत्वाभावादव्यापिनी प्रमाणव्यवस्था स्याद् । यदि वस्त्वधिष्ठाना प्रमाणव्यवस्था कथं विप्रकृष्टविष१. प्रवर्तकत्व० । २. प्राय० । ३. नास्ति प्रधानम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । Jain Education International 3 , - For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy