________________
नीलविकल्पस्थाप्रामाण्यम् । तस्य व्यवस्थापयितुं शक्यत इति भावः । “ नीलविकल्पस्य विषयेण" नीलसामान्येन [ T. 228a.] “ नीलसाध्यार्थक्रिया " रञ्जनादिका "क्रियते”। तस्य व्यक्तिस्वाभाज्यायोगे सति कल्पितरूपस्य तदसम्भवात् । न च नित्यस्वभावतामाबिभ्राणेन नीलविकल्पस्य विषयेण नीलसाध्याऽन्या वाऽर्थक्रिया क्रियते । क्रमयोगपद्यविरोधा- 5 दिति मन्यते । .. [२२. मीमांसकसंमतप्रमाणलक्षणे दोषदर्शनम् । ]
तदेवं नीलं दृष्टा नीलम्' इति ज्ञाने प्रतिभासमानं सामान्य न काश्चिदर्थक्रियामुपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपृष्ठभाविनः प्रामाण्यप्रसङ्गादतिव्याप्ति- 10 रिति “ तत्रापूर्वार्थविज्ञानम् ” इति [S. 36a.] प्रमाणलक्षणे मीमांसकैविशेषणमुपादेयमिति दर्शयन्नाह - " तस्माद् ” यत एवमनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यमयुक्तम् तस्मादस्मदभिमतं " प्रमाणमविसंवादि ज्ञानम् ” [प्रमाणवा० १.३] इति प्रमाणलक्षणं व्युदस्य " अनधिगतार्थविषयं प्रमाणम्","तत्रापूर्वार्थविज्ञानं 15 प्रमाणम् " " इति अपि” एतस्मिन्नप्याहोपुरुषिकयाऽन्यस्मि(स्मिन्) " प्रमाणलक्षणे " क्रियमाणे “ अतिव्याप्तिपरिहाराय विशेषणीयं " विशेषणमुपादेयम् । कथं विशेषणीयम् " अनधिगते स्वलक्षणे इति " । अनेन हि विशेषणेनानुमानविकल्पस्य च प्रामाण्यं सिध्यति, आ. लोचनाज्ञानपृष्ठभाविनश्च विकल्पस्य प्रामाण्यं व्युदस्यत इति 20 सर्व सुस्थम् ।
तदेवं विधिविकल्पस्यानर्थक्रियासाधनविषयतयाऽनधिगतसामान्याधिगमेऽपि प्रामाण्यं निराकृत्य [T. 228b.] चशब्दसमुचितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणमप्रामाण्यकारणं [S. 36b.] दर्शयन्नाह – “ अधिगते तु स्वलक्षणे " आलोचनाज्ञानेन 25 " तत्सामर्थ्यजन्मा " स्वलक्षणाधिगमबलभावी " विकल्पस्तदनुकारी" साक्षादनुत्पत्तेईर्शनसंस्काराधेयवशाचास्प(च स्प)ष्टनीलस्वलक्षणाकारानुकारी दृश्यविकल्प्ययोश्चैकीकरणादेवमुच्यते । वस्तुतस्तु १. 'न व.' इत्यनेन सम्बन्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org