SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३२ हेतुबिन्दुटीका। इति मिथ्यात्वप्रसङ्गदोष उक्तो नासौ तथागतसमयनयावदातबुद्धीन् बाधते । सामान्यबुद्धीनां बाधकप्रत्ययनिबन्धनस्य मि- . थ्यात्वस्योपगतत्वात् । तथा हि - "कस्मात् सामादिमत्स्वेव गोत्वं ? यस्मात् तदात्मकम् । ___तादात्म्यमस्य कस्मात् चेत् , स्वभावादिति गम्यताम् ॥" [लोक० आकृति० ४७ ] इति वचनात् [T. 227b.] 'व्यक्तिस्वभावं च सामान्यम् । न चासाधारणम् व्यक्त्युदयविनाशयोा (योश्च) नोदयव्यययोगि' इत्ययुक्तम् , विरुद्धधर्माध्यासतो भेदप्रसङ्गादिति । आह च - 10 " तादात्म्यं चेन्मतं जातेयक्तिजन्मन्यजातता। नाशेऽनाशश्च केनेष्टः ? तद्वचाऽनन्वयो न किम् ॥ व्यक्तिजन्मन्यजाता' [S. 35a.] चेदागता नाश्रयान्तरात् । प्रागासीन्न च तद्देशे सा तया सङ्गता कथम् ॥ व्यक्तिनाशे न चेन्नष्टा गता व्यत्यन्तरं न च । तच्छून्ये न स्थिता देशे सा जातिः क्वेति कथ्यताम् ॥ व्यक्तेर्जन्मादियोगेऽपि यदि जातेः स नेष्यते।। तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ॥” इति । [$ २१. नीलविकल्पस्याप्रामाण्यसमर्थनम् । ] यदि नीलखलक्षणमेव सामान्यसाध्यार्थक्रियाकारि तदेव त20 धिगच्छन् विकल्पः प्रमाणं भविष्यतीत्याह - " तच्च " नीलस्खलक्षणम् । “ तेनात्मना ” नीलसाध्यार्थक्रियाकारिणा स्वभावेन " दृष्टमेव " आलोचनाप्रत्ययेन । ततो निष्पादितक्रिये कर्मण्यविशेषाधायि विकल्पज्ञानं कथं प्रमाणं स्यात् ।। अथ मतम् - सामान्यमेव तयधिगच्छन् नीलविकल्पः प्रमाणमस्तु । तच सा25 मान्यमर्थक्रियाकारि । यतो नीलसाध्यामेवार्थक्रियां नीलेन सह सम्भूय करिष्यति । व्यक्तिखभावान्येव हि सामान्यानीत्याह - [S. 35b.] “ न च " नैव “ तत् स्वलक्षणग्रहणोत्तरकालभाविनो" नीलव्यक्तिदर्शनोत्तरकालं भवनशीलस्य । लिङ्गग्रहणोत्तरकालभाविनस्तु पूर्वोक्तेन प्रकारेण व्यक्तिसाध्यार्थक्रिया सामान्यस्य कल्पि१. हेतुना । २. व्यक्ति रव । ३. अननुवृत्तिः । ४, जातिः । ५. साङ्ख्यमतमाकुट्टयन्नाह । 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy