________________
सामान्यचिन्ता। तत्सहचारिण उपलभ्यस्य तदर्भिन्नस्वभावस्य चानुपलम्भो युक्तः। ततः कथमिन्द्रियबुद्धछात्मकता ? । __ अथानुमानादिबुद्धिम् ; तस्यामपि स्वलक्षणाप्रतिभासनात् कुतो वयात्मकत्वम् ? । न हि तासु सामान्यग्राहिणीष्वस्पष्टो व्यत्तयाकार इव लक्ष्यमाणः स्वलक्षणप्रतिभासः। तदभावेऽपि 5 तासां भावात् । आकारान्तरेण च खज्ञाने[5]प्रतिभासनात् अनेकाकारायोगाद् एकस्य , अतिप्रसङ्गाच्च । तस्मान्नेयं भिन्नार्थग्राहिण्यभिन्ना सामान्यबुद्धिः प्रतिभाति खलक्षणोद्भवा सती । किन्त्वनादिवितथ[T. 227a.]विकल्पाभ्यासवासनाजनिता सती तथाऽवभासते । दृढत्वं च बुद्धे विनाशित्वम्, क्षणिकत्वाभ्युपग- 10 मात् किन्त्वबाध्यमानत्वम् । न चास्यास्तत् सम्भवति, लेशतो बाधकस्योक्तत्वात् । विस्तरतस्तु स्याद्वादभङ्गाद् यथावसरमिहैव तत्र तत्र विधास्यमानाद् बाधकमवधार्यम् । तस्माद् यथा व्यक्तयः सामान्यान्तरमन्तरेण तदेकमुपकुर्वन्ति तथाऽभिन्नज्ञानाभिधाने अपि प्रवर्तयिष्यन्तीति तदेव नीलस्वलक्षणं सामान्य- 15 साध्यत्वोपगतार्थक्रियाकारि ।
[ $ २०. कुमारिलदत्तस्य दोषस्य सौगतबुद्धयबाधकत्वदर्शनम् । ] यस्तु - [S. 34b. "सामान्य नान्यदिष्टं चेत् तस्य वृत्तेनियामकम् । गोत्वेनाऽपि विना कस्माद् गोबुद्धिन नियम्यते ॥ यथा तुल्येऽपि भिन्नत्वे केषुचिद् वृत्त्यवृत्तिता।
गोत्वादेरनिमित्ताऽपि तथा बुद्धिर्भविष्यति ॥" [श्लोक आकृति० ३५, ३६ ] इति पूर्वपक्षयित्वा -
"विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद् ध्रुवम् ॥
25 ता हि तेन विनोत्पन्ना मिथ्या स्युर्विषयादते । न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ॥"
[श्लोक० आकृति० ३७, ३८] १. भिन्नसामान्यबादिमतम् । २ अभिन्नसामान्यादिमतम् । ३. ' अभिप्रेत्यच्यते' इति प्रागुक्तेन सम्बन्धः। ४. अनेकाकारस्यैकत्वे न क्वचिदनेकत्वं स्यादित्यर्थः । ५. मिथ्यादोष उक्त इति सम्बन्धः । ६. सामा यस्य प्रतिनियतव्यक्तिषु वृत्तेनियामकम् । ७. सामान्येन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org