________________
हेतुबिन्दुटीका। तत् कथमदृष्टकल्पनयाऽऽत्मानं स्वयमेव विप्रलभेमहि ? । व्यक्तिरूपसंसर्गाद् अयोगोलकवह्निवद्विभावनमिति चेत् ; न , सर्वत्र भेदाभेदव्यवस्थाया अभावप्रसङ्गात् । अस्योत्तरस्यान्यत्रापि सुलभत्वात् । न च सामान्यस्य द्वे रूपे स्तः स्पष्टमस्पष्टं च, येनै5 केन दर्शने प्रतिभासेत अन्येनानुमानादिज्ञाने, पदार्थद्वयोपगमप्रसङ्गात्, प्रतिभासभेदस्यैव सर्वत्र भावभेदव्यवस्थानिबन्धनत्वात् , सामान्यस्यापरसामान्यप्रसक्तनि:सामान्यस्य चास्योपगमात्।
[$ १९. कुमारिलोक्तद्वयात्मकबुद्धेर्निरसनम् । ] 10 एतेनैतदपि निरस्तम् यदाह -
" सर्व्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका।
आयते द्वयात्मकत्वेन विना सा च न युज्यते ॥" [ श्लोक० आकृति ५ ] "न चात्रान्यतरा भ्रान्तिरुपचारेण चेष्यते ।
दृढत्वात् सर्वदा बुद्धेन्तिस्तद्धान्तिवादिनाम् ॥” [ श्लोक० आकृति० ७ ] 15 [S. 33b.] इति। यतो यदीन्द्रियबुद्धिमभिप्रेत्योच्यते ; तदासिद्धम् ,
अस्पष्टस्य नीलाद्याकारस्य स्पष्टनीलाद्याभासायां तत्रानुपलक्षणात् , स्पष्टस्यापि च द्वितीयस्यानुयायिनः । तद्भावे च व्यक्तिद्रयान्तरालमप्यामुवतः कथं [T. 226b.] तेदनुगमः ?। व्याप्तौ(व्यक्ती) चोपलभ्यस्य सतः तत्रानुपलक्षणं कुतः ?। नहि तस्य 20 व्यक्ताव्यक्तरूपसम्भवः, एकत्वात् । तथा चाह -
"व्यक्तावेकत्र सा व्यक्ताऽभेदात् सर्वत्रगा यदि ।
जातिदृश्येत सर्वत्र [सापि न व्यक्त्यपेक्षिणी] ॥" [प्रमाणवा० ३.१५४, ५] इति । एकत्रापि च व्यक्तावुपलभ्यमानायां सकलत्रैलोक्यव्यापि
रूपं सकलस्वाश्रयव्यापि वा दृश्येत ? । न ह्येकस्याः किश्चिद् 25 दृष्टमदृष्टं वा नाम क्षणिकतादिवद् । दृष्टायामप्येकत्रैवाश्रये दर्शनावसायो न सर्वत्रोत चेत् ; न , विकल्पेन तदर्शनाभ्युपगमात् । न हि निश्चयविषयीकृतं चानिश्चितं चेति युक्तम् । ततः सर्वगतरूपदर्शने सर्वार्थानां दर्शनप्रसङ्गः। न हि [S. 34a.] तदर्शने
१. सामान्यस्य । २. दूषणान्तरमाह । ३. अबाध्यमानत्वात् । ४. द्वितीयानुयायि[भावे] । ५. व्यकिद्वय । ६. सामान्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org