________________
सामान्य चिन्ता |
ल्पयति । यत् तु सामान्यमनुमानविकल्पग्राह्यं तत् कारणत्र्यापकसम्बन्डलिङ्गनिश्चयद्वाराऽऽयातं सम्बद्ध सम्बन्धादनधिगतार्थक्रियासाधनविषयामर्थक्रियामुपकल्पयतीति तद्विषयो विकल्प: प्रमाणम् । [S. 32a. ] इदं तु नैवम्, अधिगतत्वादर्थक्रियासाधनस्यालोचनाज्ञानेनेति । अत्रोदाहरणम् " यथा - नीलं दृष्ट्वा नीलमिति ज्ञाने " 5 प्रतिभासमानमिति शेषः । न सामान्यं काश्चिदर्थक्रियामुपकल्पयतीति प्रकृतेन सम्बन्धः ।
ननु च लिङ्गविकल्पप्रतिभासि [T. 225b.] सामान्यं प्रकृतम् तत् किमन्यदुदाहियते । सर्व्वस्य दर्शनपृष्ठभाविनो विकल्पस्य परोपगतां प्रत्यक्षप्रमाणतां तुल्यन्यायतया निराकर्तुम् । कां 10 पुनलमिति विकल्पज्ञाने दर्शनपृष्ठभाविनि प्रतिभासमानं सामान्यमर्थक्रियां नोपकल्पयति । यदि व्यक्तिसाध्याम् ; तदाऽन्योऽपि पदार्थोऽन्यदीयामर्थक्रियां नोपकल्पयतीति तस्याप्यनर्थक्रियासाधनत्वादवस्तुत्वप्रसङ्गः । अथ स्वसाध्याम् ; तदसिद्धम्, अभिन्नज्ञानाभिधानलक्षणायाः स्वसाध्यायाः करणा- 15 दित्याशङ्कयाह " तदेव हि " [Tt. 356b.] यत् तदालोचनाज्ञानेनोपलब्धं [S. 32b. ] " नीलस्वलक्षणम् " नीलव्यक्तिः " तथाविधसाध्यार्थक्रियाकारि " । तथाविधशब्देन सामान्यमन्त्राभिप्रेतम्, तादृशपर्यायत्वादस्य, साधारणरूपस्य च तादृशत्वात् । तेन तथाविधसाध्यां नीलसामान्य साध्यामभिन्नज्ञानाभिधानलक्षणामर्थक्रियां 20 कर्तुं शीलमस्य स्वलक्षणस्येति तत् तथोक्तम् ।
एवं मन्यते - यथा भिन्ना अपि व्यक्तयः कयाचित् प्रत्यासत्त्या तदेककार्यप्रतिनियमलक्षणया तदेकमभिन्नं सामान्यमुपकुर्व्वन्ति, तदपर सामान्ययोगमन्तरेणापि, अन्यथाऽनवस्थाप्रसङ्गात्, तथाऽभिन्नज्ञानाभिधानात्मिकामप्यर्थक्रियां साधयिष्यन्ति । 25 किमप्रमाणकेन प्रमाणबाधितेन च सामान्येनोपगतेन ? | [T. 226a.] तथा हि - अनुमानादिके ज्ञाने यथाविधमस्यास्पष्टं रूपं प्रतिभासते न तथाविधं व्यक्तिषु दृश्यमाना सुपलक्षयामः । एकमेव हि व्यक्तिदर्शनकाले स्पष्टं नीलादिरूपं विभावयामः । [S. 33a.] १. अनुपकृतत्य तदाधेयत्वाभावात् ।
Jain Education International
-
२९
For Private & Personal Use Only
www.jainelibrary.org