________________
224
ટે
हतबन्दुटीका |
इति वैधर्म्यदृष्टान्तः । यथा प्रत्यक्षेणार्थक्रियासाधने प्रदेशाख्ये धर्मिण्यधिगतेऽप्यनधिगतस्याग्नेरर्थक्रियासाधनस्या सामान्याका
रेण परोक्षस्य स्वलक्षणाकारेण प्रतिपत्तुमशक्यत्वात् प्रतिपत्तिनैवं विधिविकल्पेन सामान्याकारेणानधिगतमर्थक्रियासाधनमधि5 गम्यते, तैस्यालोचनाज्ञानेनैवाधिगमात् । [ S. 312.] तस्मिं (स्मिन्) स्मृतिरेवासाविति न प्रमाणमिति ।
[ $ १७. अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम् । ]
“ अर्थक्रियासाधनविषयमेव प्रमाणम् ” नेतरदिति कुत एतत् ? इति चेत् " अर्थक्रियार्थी हि " पुरुषो यस्मात् हिताहितप्राप्तिपरिहारार्थी 10 “ सर्वो " न काकतालीयन्यायेन कश्चिदेव, " प्रेक्षावान् ” बुद्धि पुर्वकारी “ प्रमाणमप्रमाणं वा " प्रमाणादेव सर्व्वदा प्रवर्त (तें) य अप्रमाणात् मा कदाचित् विप्रलम्भसम्भवाद्, " उभयमन्वेषते " न व्यसनितया । ततोऽयमर्थक्रियासाधनविषयमेव प्रमाणं ब्रवीति, तस्यार्थक्रियासाधने प्रवृत्त्यङ्गत्वात् । नेतरत्, तद्विपरीतत्वात् । तथा 15 हि - प्रमाणमविसंवादकमप्रतारकमुच्यते लोकेऽपि । [T. 225a. ] यच्चार्थक्रियासाधनमनधिगच्छन्न तत्र प्रवर्तयति, कुत एव तत् प्रापयेत् तत् कथमविसंवादकतया प्रेक्षापूर्व्वकारी प्रमाणमाचक्षीत ? |
[$ १८. सामान्यस्य विस्तरेणावस्तुत्वसाधनम् । ]
स्वल
"
"3
[S. 31b. ] यद्येवं सामान्य मप्यर्थक्रियासाधनमेव ततस्तद्विषयो विधिविकल्पः प्रमाणं भविष्यतीति चेद् आह - " न च " नैव "सामान्यं काञ्चित् ” तत्साध्यतयोपगतामभिन्नज्ञानाभिधानलक्षणामन्यां वा व्यक्तिसाध्याम् " अर्थक्रियामुपकल्पयति " । कीदृशम् ? “ क्षणप्रतिपत्तेः " व्यक्तिप्रतिपत्तेरालोचनाज्ञानसंज्ञिताया ऊर्ध्वम् 25 उत्तरकालं “ तत्सामर्थ्योत्पन्नविकल्पविज्ञानग्राह्यम् " इति । तच्छब्देन स्वलक्षणप्रतिपत्तिः सम्बध्यते । ' ततः परं पुनर्व्वस्तु' इत्यादि परैरभिधानादेवं ब्रवीति दर्शनपृष्ठभाविनो विकल्पस्य प्रत्यक्षप्रमाणतां निराकर्तुम् । सर्व्वमेव तु सामान्यं न काञ्चिदर्थक्रियामुपक१. धमस्य सामा° T. २ अनुमानेनेति शेषः । ३. वस्तुनः । ४. क्रियाविशेषणमदः ।
For Private & Personal Use Only
20
Jain Education International
"
www.jainelibrary.org