________________
विधिविकल्पस्याप्रामाण्यम् । आलोचनाज्ञानोदयकाले " असाधारणम् ” असङ्कीर्णरूपं दृष्टा असाधारणमर्थान्तररूपं न भवतीति “ अभिलपतः" विकल्पयतः " प्रतिषेधविकल्पस्यापूर्वार्थाधिगमाभावाद् ” अपूर्वार्थविज्ञानताविरहात् [S. 30a.]| अपूर्वार्थविज्ञानं च प्रमाणं भवतोच्यत इति भावः ।
[१६. विधिविकल्पस्याप्यप्रामाण्यव्यवस्थापनम् । ] यद्युक्तेन प्रकारेण प्रतिषधविकल्पो न प्रमाणं, विधिविकल्पस्तर्हि प्रमाणं भविष्यति । नहि तस्यापूर्वार्थविज्ञानत्वाभावः सम्भवति । तत्प्रतिभासिनोऽनुगतस्य सामान्याकारस्यासाधारणरूपावलम्बिना दर्शनेनानधिगमात् तत् कुतोऽस्याप्रामाण्यम् । 10 तदुक्तम् -
" ततः परं पुनर्वस्तु " [श्लोक० प्र० १२०] इत्यादि । तदेतत् कुमारिलवचनमाशङ्कय विधिविकल्पस्यापि प्रामाण्यमनुप(मप)नुदन्नाह - " अर्थक्रियासाधनस्य " खलक्षणस्य " आलोचनाज्ञानेन दर्शनाददृष्टस्य पुनस्तत्साधनस्य " अर्थक्रियासाधनस्य स्वभावस्य " विकल्पेनाप्रतिपत्तेः विधिविकल्पो न प्रमाणम् । यद्यपि 15 तेनानधिगतं सामान्यमधिगम्यत इति वर्ण्यते तथाऽपि तद् अथक्रियासाधनं न भवति इति तदधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम् । [S. 30b.]
" ततः परं पुनर्वस्तु धम्मॆर्जात्यादिभिर्यया।
बुध्या(द्धया)ऽवसीयते" [ श्लोक० प्र० १२०] इति चोच्यते । तत्र पुनर्वस्तुग्रहणेन निर्विकल्पकप्रत्यक्षविषयस्यैव वस्तुनो जात्यादि[T. 224b.] विशिष्टस्य विकल्पबुध्या(इया)ऽवसाय उच्यते । तस्य च निर्विकल्पज्ञानेनैवाधिगमात् न तत्र प्रामाण्यम्, जातेस्त्वर्थक्रियासाधनस्वाभावादनधिगताया अधिगमेऽपि केशादिज्ञानस्येव न प्रामाण्यम् । अत एवार्थक्रिया- 25 सामर्थ्यविरहिणा सामान्येनेन्द्रियाणां सम्प्रयोगाभावात् प्रत्यक्षताऽप्यसंम्भविनी । 'च'कारेण स्मृतित्वाचेति पूर्वोक्तकारणसमु. चयः। स्मृतित्वं चास्योत्तरत्र प्रतिपादयिष्यते । “ अनुमानवद्"
१ सामान्यमानं वा विधिविकल्पेन गृह्यते तद्विशिष्टं वा स्वलक्षणम् , गत्यन्तराभावात् । तत्र पूर्वपक्षे आह " यद्यपि " इत्यादि । २. उत्तरस्मिन् पक्षे आह ।
OU
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org