________________
हेतुबिन्दुटीका। नासङ्कीर्णरूपतायामसत्यां पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिश्चित्कराभावांशसम्भवेऽपि त्यागायोगात्। न च तेनैव तद्विनाशनम् , विनाशहेत्वयोगस्य प्रतिपादयिष्यमाणत्वात् । तेन सङ्कीर्णरूपविनाशने 5 च वरं स्वहेतोरेव स्वभावतोऽसङ्कीर्णरूपाणामुयोऽस्तु किं परिबाड्मो[T. 223b.]दकन्यायोपगमेन ? । तस्मात् स्वभावत एव भावानां पररूपविकलत्वमभावांश: नान्यः । स च तथाभूतो दर्शनेन गृहीत एव । तस्मिस्तथाभते [S. 29a.] दृष्टे "स" पदार्थो
"येन" वस्तुना " असाधारणः " समानस्वभावो न भवति तद्रूप. 10 विकलस्वभावत्वात् “ तदसाधारणतां " तेन तेनातद्रूपेणासमानस्वभावतां एतदेव व्यनक्ति ।“ ततः ” अर्थान्तरादू " भेदं " वैलक्षण्यमन्यरूपमिदं न भवतीति “ अभिलपन्ती " अभिमुखयन्ती दृष्टवैलक्षण्ये प्रवर्तमानतया " स्मृतिरुत्पन्ना प्रत्यक्षबलेन"। यदि तु लिङ्गबलेनोत्पद्येत व्यवच्छेदविषयाऽपि स्मृतिन स्यादिति भावः। 15 किं विषया?। “ अतद्व्यावृत्तिविषया । ” तच्छब्देन दर्शनविषयस्य
वस्तुनः परामर्शः कृतः । न तत् अतत् विजातीयम् । अतस्माद् व्यावृत्तिः अतद्यावृत्तिः । सा विषयो यस्याः सा तथा । यथादृष्ट एवार्थान्तरेभ्यो भेदो मया ऽपि कल्प्यते इति प्रतिपत्र(त्र)ध्यव
सायाचैवमुक्तम् । परामर्थतो निविषयत्वात् । [S. 29b.] सा 20 " न प्रमाणं " नाभावप्रमाणफलमित्यर्थः । न हि स्मृतिजनकत्वेन
प्रमाणता युक्ता। कस्मात् न प्रमाणम् ? । यथादृष्टस्याकारोऽभ्यासपाटवादिप्रत्ययान्तरसापेक्षो विशेषस्तस्य ग्रहणात् । न हि दृष्टमित्येव विकल्पेन गृह्यते, दर्शनाविशेषात् साकारेषु विकल्पोदयप्रसङ्गात् , अपि तु कश्चिदेवाभ्यासादिप्रत्ययापेक्ष इत्या25 कारग्रहणेनाचष्टे।
भवतु यथादृष्टा[T. 224a.]कारग्रहणम् । प्रमाणं तु कस्मान्न भवतीति परस्य तदुक्तप्रमाणलक्षणविरहं दर्शयन्नाह - " प्राग्"
१. असंकीन(ण)रूपता। २. नाकिञ्चित्करोऽभावांशः तेनैव संकीर्णरूपताविनाशनात् इति चेदाह । ३. पररूपस्य कल्पितत्वादभावांश: - T. ४, अपि त्वनुमानं स्यात् । ५. परैर्वस्तुदर्शनग्यैव नास्तिताविकल्पजनकत्वेनाभावप्रमाणतयोकत्वादित्थं व्याख्यातम् । ६. भवतापि यथा° T.। ७. आलोचनाज्ञानादुत्तरस्य , कुमारिलस्य वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org