________________
..
.
.
कुमारिलाक्षेपस्योत्तरम् । त्मना दृष्टवतः सतः पुंसोऽनन्तरं " स्मात् लिङ्गज्ञानमुत्पद्यते " इति सम्बन्धः। स्मृतिरेव " स्मार्त्तम् ” । लिङ्गप्रतिभासि ज्ञानं “ लिङ्गज्ञानम् " । अनेन प्रत्यक्षपृष्ठभाविनि विकल्पे यत्सामान्यमाभाति तस्य लिङ्गव्यवस्थामाह।
परमार्थतः किं विषयं ? । “ यथादृष्टभेदपरमार्थ विषयम् "] [S. 27a. 5 and S. 27b. ]. ........................................................................
............................................................... [ $ १४. दर्शनविधिप्रतिषेधविकल्पेषु प्रामाण्याप्रामाण्यव्यवस्था।]
[S. 28a.] [दार्शनविधिप्रतिषेधविकल्पानां प्रमाणाप्रमाणचि-10 न्तामारभते । “ तत्र " तेषु दर्शनविधिप्रतिषेध[T. 223a.]विकल्पेषु । तदाद्यं यदेतत् -
"अस्ति ह्यालोचनाशानं प्रथमम् -" [श्लोक० प्र० ११२] इति आदौ विकल्पप्रवृत्तेर्भवमिति " आद्यम् " आख्यातम् " असाधारणविषयम् ” खलक्षणविषयं दर्शनं तद् “ एव” प्रमाणं न विधिप्रति-15 षेधविकल्पावपि। तस्यैव प्रमाणलक्षणयोगादितरयोश्च तदसम्भवात् । तथा हि - अनधिगतविषयत्वमर्थक्रियासाधनविषयत्वं च प्रेमाणलक्षणम् । तद् दर्शनस्यैवास्ति ।
तत्र “आद्यम्" इत्यपूर्वार्थविज्ञानत्वमाख्यातम् " असाधारणविषयम् ” इति अर्थक्रियासाधनविषयत्वम् । स्वलक्षणस्यैवार्थक्रिया- 20साधनत्वात्।
[$१५. प्रतिषेधविकल्पस्याप्रामाण्यस्थापनम् । ] तत्र प्रतिषेधविकल्पस्य तावत् प्रत्यक्षगृहीतार्थविषयतया स्मृतित्वं प्रतिपादयन्नाह - " तस्मिन्” असाधारणे “ तथाभूते " अर्थान्तरैरसङ्कीर्ण[S. 28b] रूपे “ दर्शनेन " असङ्कीर्णरूपसाम- 25 र्थ्यभाविना " दृष्टे " अधिगते “सति”। तथा हि - व्यतिरिक्तमपि भावांशादभावांशमिच्छता भावांशः स्वभावेनासङ्कीर्णरूपः .... कल्पनीयः, अन्यथा स एवाभावांशो न सिध्येत् । न च स्वभावे
१. प्रथम विशेषणात् प्रतिषेधविकल्पस्याऽध्यवसेयार्थक्रियासाधनविषयत्वेऽपि न प्रामाण्यम् । द्वितीयात् . तु विधिविकल्पत्यानधिगतसामान्य विषयत्वेऽपि न प्रामाण्यम् । २. स्वभावेन संकीर्णत्वे । .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org