________________
हेतु बिन्दुटीका ।
अस्माकं तु प्रत्यक्षपृष्ठभाविनाऽपि विकल्पेन प्रकृतिविभ्रमात् सामान्यं प्रतीयते । लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात् [T. 221b.] परम्परया वस्तुप्रतिबन्धादविसंवादकत्वम्, मणिप्रभायामिव मणिभ्रान्तेः । कार्यहेतुत्वमपि विकल्पावभासिनो धूमसा5 मान्यस्य लिङ्गतयाऽवस्थाप्यमानस्य कार्यदर्शनाश्रयतया तदध्यवसायाच्च । न हि धूमखलक्षणस्य लिङ्गताऽवस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्, तदंशव्याप्त्ययोगात्, साध्यसाधनसंकल्पे वस्तुदर्शनासम्भवाच्चेति ।
२४
यत्तूक्तम् [S. 26a.] ' सामान्यलक्षणविषयमनुमानम् ' इति 10 तत्र नैवमवधार्यते - सामान्यलक्षणविषयमनुमानमेवेति । प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयत्वात् तदन्यस्य च विकल्पस्य । किन्तु सामान्यलक्षणविषयमेवानुमानमित्यवधार्यते स्वलक्षणविषयत्वनिषेधार्थमिति । तत्र सह घूमेन वर्तत इति धूमः " । पक्षधर्म्मताप्रतिपादनार्थमेवमुक्तम् । विधिविकल्पस्य 15 चैतदेव बीजम् । तं " सधूमं प्रदेशं दृष्टवतः " प्रत्यक्षेणेति सम्बन्धः । कीदृशम् " अर्थान्तरविविक्तरूपम् ” अर्थान्तरैः सजातीयविजातीयैविविक्तमसङ्कीर्ण रूपमस्येति विग्रह: । सर्व्वभावानां स्वस्वभावव्यवस्थितेः स्वभावसाङ्कर्याभावात् । अन्यथा सर्व्वस्य सर्वत्रोपयोगादतिप्रसङ्गः । [S. 26b.] अनेन प्रतिषेधविकल्पस्य निमित्त20 माख्यातम्, सामान्योत्प्रेक्षायाश्च बीजम् । तदुक्तम् -
“
" इतरेतरभेदोऽन्त्य (स्ये) बीजं संज्ञा यदर्थिका " [T. 222a. ] [ प्रमाणवा० ३.७१ ] इति । तथा हि - अर्थान्तरव्यावृत्तिं परस्परव्यावृत्तानामपि समानामुत्पश्यतो भिन्नमेषां रूपं तिरोधायाऽभिन्न स्वभावमारोप25 यैन्ती कल्पनोत्पद्यते । " असाधारणात्मना " इति अर्थान्तरव्यावृत्तेन स्वभावेन । न तु यथा कुमारिलो मन्यते ' अर्थान्तरविवेकोऽभावप्रमाणग्राह्यो न प्रत्यक्षावसेयः' इति । नहि वस्तुबलभाविना प्रत्यक्षेण अन्यथादर्शनसम्भवो भ्रान्तताप्रसङ्गात् । तेना
-
१. स्मृत्यादेः । २. सामान्यस्य । ३. 'यन् विकल्प उत्प' -T.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org