________________
कुमारिलाक्षेपस्योत्तरम् । ततः सामान्यविकल्पजननद्वारा] [S. 24b.] तत्प्रतिभासिनो धूमाकारस्य विजातीयव्यावृत्तिरूपस्य सामान्यरूपतया] प्रत्यक्षेगैव गृहीतत्वात् । न हि विजातीयव्यावृत्तिावृत्तादन्यैव काचिद् यस्याः प्रत्यक्षेणाग्रहणं स्यात् । तस्माद् यथापरिदृष्टं धूमादिखलक्षणमेवान्यतो व्यावृत्तिात्मना विकल्प्यत इति प्रतिपन्नध्य- 5 वसायवशात् स्मृतिरेव । द्विविधो विकल्पः प्रत्यक्षपृष्ठभावी वस्तुतः पुनर्निविषय एव । ततो यदाह - सामान्यस्याननुभूततया
"स्मार्तमेतदभेदेन विज्ञानमिति यो वदेत् । __तस्य वन्ध्यासुतेऽप्यस्ति नूनं स्मरणशक्तता ॥" [ श्लोक० अनु० १६० ]10 इति तदप्यपास्तमिति ॥
[ $ १३. अनुमितेः सामान्यविषयत्वेऽनवस्थेति कुमारिलाक्षेपस्योत्तरम् । ] __ अथवाऽपरं कुमारिलेनाभिहितम् - " स्व[T. 221a.]लक्षणविषयं प्रत्यक्षं सामान्यलक्षणविषयमनुमानम्" इति वचनात् धूमादिसामान्यमनुमानग्राह्यमेव । तत्र चानवस्था लिङ्गग्राहिणोऽप्यनुमानस्य त-15 दन्यलिङ्गबलेनोत्पत्तेः । तस्य च सामान्यरूपतया [S. 25a.] तद्न्यानुमानमानविषयत्वात् तथा तदन्यस्यापीति कस्यचिदेकस्यापि लिगिनः प्रतिपत्तिः युगसहस्ररपि न सम्भवति । किमङ्ग पुनरेकेन पुरुषायुष्कणेति । तथा चाह -
"सामान्यं नानुमानेन विना यस्य प्रतीयते । न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्तते ॥ असामान्यस्य लिङ्गत्वं न च केनचिदिष्यते । न चानवगतं लिङ्ग किश्चिदस्ति प्रकाशकम् ॥ तस्यापि चानुमानेन स्यादन्येन गतिः पुनः। तदुद्भतिश्च लिङ्गात् स्यात् सामान्यज्ञानसंहितात् ॥ तस्य चाप्यनुमानत्वं लिङ्गेन च तदुद्भवः । अनुमानान्तरादेव झातेनैवं च कल्पने ॥ लिङ्गलिङ्ग यनुमानानामानन्त्यादेकलिङ्गिनि ।
गतिर्युगसहस्रेषु बहुष्वपि न विद्यते ॥” [ श्लोक० अनु० १४९-१५३ ] इत्याशङ्कयाऽऽह [S. 25b.] - “ सधूमं हि ” इत्यादि । एवं मन्यते । 30 यस्यानुमानमन्तरेण सामान्यं न प्रतीयते भवतु तस्यायं दोषः,
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org