________________
हेतुबिन्दुटीका। इति ब्रुवता - 'सौगतानामेवायं लिङ्ग-धम्मि-तत्सम्बन्धाग्रहणलक्षणो दोषो येषामविकल्पकमेव प्रत्यक्षं, नास्माकं सविकल्पमपि प्रत्यक्षमिच्छताम् ' [S. 23b.] इत्युक्तं भवति । ततस्तदुपवर्णिणतदोषप्रतिविधानायाऽऽह - " सधूमं हि ” [Tt. 356a.] इ. 5 त्यादि । अयमत्र समुदायार्थः - प्रत्यक्षं हि पुरोवस्थितमौत्तराधर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिस्खलक्षणं सकलसजातीयविजातीयव्यावृत्तं च खखभावव्यवस्थितेः सर्वासामर्थमात्राणां परस्परमसंकीर्णरूपत्वात् तत्सामर्थ्य भावियथास्थानमनुकुर्वत्पाश्चात्त्यविधिप्रतिषेधविकल्पद्वयं जनयति येन धूमप्रदे10 शाख्यौ धर्मधम्मिणी तयोश्चौत्तराधर्यम् 'एवमेतत् नान्यथा' इति विकल्पयति । यथानुभवमभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानामुदयात् । ततो धर्मधम्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चयश्च प्रत्यक्षनिबन्धनः सम्पद्यते । तथा हि - अयमेव धूम
प्रदेशयोः सम्बन्धस्य निश्चयो य: 'अत्रायम् इत्यध्यवसायः। 15 स चाविकल्पेनापि प्रत्यक्षेण यथोक्तेन प्रकारेण सम्पादित एव ।
न चौत्तराधर्यावस्थितादू वस्तुद्यादन्य [S. 24a.] एव कश्चिदाधा[राधे]यभावलक्षणः सम्बन्धः यतः तस्य [T. 220b.] प्रत्यक्षेणाननुभूतत्वात् पश्चाद(द्) विकल्पनं स्यात्। वस्तुभूतस्य तस्यान्यत्र निषेधात् । तस्मादयं तदेव तथावस्थितमथद्वयमाश्रित्य कल्पना20 समारोपित एव । तेन सम्बन्धः सम्बन्धीति भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मधम्मितया व्यवहारो लोके न तु पारमार्थिकः । सामान्यव्यवहारोऽपि विजातीयव्यावृत्तानेव भावानासृ(श्रिोत्य कल्पनासमारोपित एव प्रतन्यते । तेषामेव भिन्नानामप्यनुभव
बारेण विजातीयव्यावृत्ततया प्रकृत्यैवैकाकारपरामर्शप्रत्ययहेतु25 त्वात् । तथा चाह -
"एकप्रत्यवमार्थज्ञानाघेकार्थसाधने ।
भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥" [प्रमाणवा० ३.७२ ] इति । १. पुरोऽवस्थितार्थसामर्थ्यभाविप्रत्यक्ष° । २. औत्तरावर्यावस्थितम् । ३. धूमप्रदेशलक्षण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org