SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ कुमारिलाक्षेपस्योत्तरम् । वतः कल्पितमेकत्वं न निवार्यते । प्रदेशे एव च लोकोऽग्निं प्रतिपद्यते, न धूमे । देशकालाद्यपेक्षयैव च कार्यहेतुर्गमकः । यदाह - " इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि स्याद् भस्मेवाऽशीतसाधन:(धने)॥" 5 प्रमाणवा० ३.५] इति। " ततो देशाद्यपेक्षाऽग्निसाधने धूमवत्तया। गृह्यमाणस्य देशस्य धर्मिता न विरुध्यते॥" यथा बलाकावतो वृक्षादेशाद्यपेक्षया जलसाधनत्वमिति । " शब्दे वा कृतकत्वस्य " प्रत्ययभेदभेदित्वादिनानुमाननेति । 10 [$ १२. निर्विकल्पं कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम् । ] अत्र यथोपवर्णिणतं प्रत्यक्षतः [S. 23a.] पक्षधर्मस्य साध्यधम्मिणि प्रसिद्धावभिप्रायमप्रतिपद्यमानः कुमारिलः - 'कथं प्रत्यक्षेण(णा)विकल्पेन सामान्यात्मनो लिङ्गस्य धूमादेः स्वरूपग्र[हण]मपि तावद् युज्यते , धमिणो वा कुत एव तत्सम्बन्ध-15 ग्रहणम् ' - इति प्रत्यवतस्थे । तेन हि " प्रत्यक्षपूर्वकत्वाच्चानुमानादेचम्मै प्रत्यनिमित्तत्वम् ” [ शाबरभाष्य १. १. ४.] इत्येतद् भाष्यम् - " कथं प्रत्यक्षपूर्वत्वमनुमानादिनो भवेत् । यदा स्मृत्यसमर्थत्वानिर्विकल्पेन्द्रियस्य धीः ॥ न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस्तथा । गृहीतिः" [ श्लोक० प्र० ८७,८८ ] इत्याक्षिप्य - " प्रत्यक्षाग्रहणं यत्तु लिङ्गादेरविकल्पनात्। . तन्नेष्टत्वाद् विकल्पस्याप्यर्थरूपोपकारिणः॥ अस्ति ह्यालोचनाज्ञानं प्रथम निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ ततः [T. 220a.] परं पुनर्वस्तु धम्मॆर्जात्यादिभिर्यया । बुद्धयावसीयते साऽपि प्रत्यक्षत्वेन सम्मता ॥" [श्लोक० प्र० १११, ११२, १२० ] १. धूमकाले एव चाग्निः साभ्यते न भस्मकाले । २. न केवलं कार्यहेतौ । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy