________________
व्याप्तिचिन्ता। व्यापकधर्मे व्यासिः तादृश्येव व्याप्यधर्म इति । तथा चाह -
"सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः । का आधाराधेयवद् वृत्तिस्तस्य संयोगिवन्न तु ॥” इति । [S. 20a.] तेन व्यापको व्याप्यो न भवति व्याप्यश्च [न] व्यापक इति । " तदंशेन व्याप्तो हेतुः " इति वचनात् न संयोगिपक्षोक्तो दोषः। 5 नाऽप्युभयोर्गम्यगमकताप्रसङ्गः, यथोक्ताद् हेतुलक्षणाद् व्यापकस्यैव गम्यत्वप्रतीतेः, व्याप्यस्यैव गमकतासम्प्रत्ययादिति ।
[९. व्याप्तेरन्वयव्यतिरेकरूपयोस्सूचनम् । ] यदि तर्हि " पक्षधर्मस्तदंशेन व्याप्तः ” इत्येतहेतुलक्षणं ततः पक्षधर्मत्वं तदंशव्याप्तिश्चेति द्विरूपो हेतुः स्यात्, अन्यत्र च 10 त्रिरूप उक्तः तत् कथं न व्याघातः ? इत्याह " एतेन ” तदंशव्याप्तिवचनेन " अन्वयो व्यतिरेको वा उक्तः " वेदितव्य इति सम्बन्धः [T. 218a.] । अन्वयव्यतिरेकरूपत्वाद् व्याप्तरिति भावः । तथा हि - य एव येनान्वितो यन्निवृत्तौ च निवर्त्तते स एव तेने व्याप्त उच्यते इति तदात्मकत्वाद् व्याप्तेर्व्याप्तिवचनेनान्वयव्य-15 तिरेकाभिधानम् । ततो व्याप्तिवचनेन रूपयाभिधानात् न व्याघात इति । [S. 20b.]
[$ १०. व्याप्तेः प्रत्यक्षेणानुमानेन वा निश्चयः । ] तौ च ज्ञापकहेत्वधिकारात् निश्चिती। " निश्चयश्च तयोन्नैकेनैव प्रमाणेन अपि तु यथास्वम् । " यस्य यद् आत्मीयं प्रमाणं निश्चायकं 20 तेन। यस्य च यत् निश्चायकं प्रमाणं तद् उत्तरत्र वक्ष्यति ।
" अन्वयो व्यतिरको वा” इति तुल्यकक्षतासूचनार्थो 'वा'शब्दः । तेन साधर्म्यवैधर्म्यवतोः प्रयोगयोरेकेनैव द्वितीयगतेविधिप्रतिषेधरूपतया व्यावृत्तिभेदेऽपि परमार्थतस्तादात्म्यात् नोभयोपदर्शनमिति सूचितं भवति । व्यतिरेको हि साध्यनिवृत्तौ लिङ्गस्य 25 निवृत्तिधर्मकत्वं स्वभावभूतो धर्म इत्यन्वयरूपता वास्तुतोऽस्य न विरुध्यते । “ पक्षधर्मश्च ” । किं ? । “ यथास्वं प्रमाणेन निश्चितः "
१. धू (धमः)। २. व (वहिना)। ३. ब (वहिं)। ४. धू (धूमः)। ५. व (पहिना) । ६. न तु निवृत्तिमात्रं तुच्छरूपम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org