________________
हेतुबिन्दुटीका। नायमर्थः]-यत्र धम्मिणि व्याप्यमस्ति तत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः। तत[श्च व्याप्यभावापेक्षया व्याप्यस्यैव व्याप्तताप्रतीतिः] [S. 19a.] । न त्वेवमवधार्यते । व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गाव्यापकस्यापि 5 मूर्त्तत्वादेस्तत्र भावात् । नापि तत्रैवेति प्रयत्नानन्तरीयकत्वादेरहेतुतापत्तेः । साधारणश्च हेतु: स्यात् । नित्यत्वस्य प्रमेयेष्वेव भावात् । यदा तु व्याप्यधर्मता(मतया) विवक्षा व्याप्तेस्तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति । यत्र धम्मिणि व्यापकोऽस्ति तत्रैव भावो, न तदभावेऽपि व्याप्तिरिति । अ10 त्रापि व्याप्यस्यैव तत्र भाव इत्यवधारणं हेत्वभावप्रसक्तरेव नाश्रितम् , अध्याप्यस्यापि तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेति सपक्षकदेशवृत्तेरहेतुत्वांतः। साधारणस्य [च] हेतुत्वं स्यात् । प्रमेयत्वस्य नित्येष्ववश्यंभावादिति । व्याप्य. व्यापकधर्मतासंवर्णनं तु व्याप्तेरुभयत्र [S. 19b.] तुल्यधर्मतयै15 काकारा प्रतीतिः संयोगिवत् मा भूदिति प्रदर्शनार्थम् । तथा
हि - पूर्वत्रायोगव्यवच्छेदेनावधारणम् [T. 217b.] उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः ? । तदुक्तम् -
" लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः ॥” इति । एतेनाऽऽचार्येण संयोगबलात् गमकत्वे यो दोष उक्तः - " न च केनचिदंशेन न संयोगी हुताशनः ।
धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनम् ॥” इति । स इह नावतरतीत्याख्यातं भवति । तथा हि - संयोगस्य उभयत्राविशेषात् एष प्रसङ्गो न तु व्याप्तेः। न हि यादृशी
१. व्यापकस्येति । २. सर्वथोच्छेद । ३. हेतौ। ४. अवधार्यते । ५. व्यापकस्यानित्यत्वादेरप्रयलानन्तरीयेष्वपि विद्युदादिषु भावात् । ६. उच्छेद । ७. अनित्यत्वादेापकस्येत्यर्थः । ८. प्रयत्नानन्तरीयकत्वादेः । ९. अनित्येष्वपि विद्युदादिषु व्याप्यस्य प्रयत्नानन्तरीकत्वस्याभावात् । १०. कारणेन । ११. सर्वथा गम्यगमकभावः प्राप्तः । अग्नेः सामान्यधर्मवद विशेषधर्मा अपि तार्णपाण्र्णादयो गम्याः स्युः । धूमस्यापि धूमवपाण्डुत्वादिविशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयोऽपि सामान्यधर्माः गमका भवेयुः प्रयोगत्योभयत्रापि तुल्यत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org