________________
ध्याप्तिचिन्ता। अयोगोऽसम्बन्धः तद्यवच्छेदेन विशेषणात् पक्षस्य । न ह्यन्ययोगव्यवच्छेदेनैव विशेषणं भवति । [ किन्तु अयोगव्यवच्छेदेनापि । यत्र धर्मिणि धर्मस्य सद्भावः संदिह्यते तत्राऽयोगव्यवच्छेदस्य न्यायप्राप्तत्वात्। अत्र च दृष्टान्तः [" यथा चैत्रो धनुर्धर इति"। चैत्रे हि धनुर्धर]त्वं संदिह्यते किमस्ति नास्ति इति। ततश्चैत्रो 5 धनुर्द्धर इति तत्सद्भावप्रतिपादिका श्रुतिः [T. 216b.] [पक्षान्तरमधनुर्धरत्वं श्रोतुराशङ्कोपस्थापितं] निराकरोतीत्ययोगव्यवच्छेदोऽत्र न्यायप्राप्तः । [S. 18a.] पराभिमतव्यवच्छेदनिराचिकीर्षयाऽऽह -[ “ न, अन्ययोगव्यवच्छेदेन विशेषणात् " अन्यत्राननुवृत्तेर]साधारणतेति सम्बन्धः। अत्रापि दृष्टान्तो " यथा पार्थो धनुर्द्धर 10 इति " । सामान्यशब्दोऽप्ययं धनुर्धरशब्दः प्रकरणसामर्थ्यादिना प्रकृष्टगुणवृत्तिः । इह पार्थे] हि धनुर्द्धरत्वं सिद्धमेवेति नायोगाशङ्का । [तादृशं तु सातिशयं किमन्यत्रास्ति नास्तीत्यन्ययोग[शङ्कायां श्रोतुः यदा पार्थो धनुर्धर इति उच्यते तदाऽन्ययोगव्यवच्छेदो न्यायप्राप्तः, प्रतिपाद्याशङ्कोपस्थापितयोरेव पक्षयोः 15 परस्परं विरोधात् एकनिर्देशेन अन्ययोगव्यवच्छेदस्य] न्यायबलायातत्वात् । तदिह पक्षेऽस्त्ययं धर्मो न वेति संशीतौ [पक्षधर्म इत्युक्त पक्षस्य धर्म एव [S. 18b.] नाधर्मः । धर्मश्च आश्रितत्वाद्विशेषणं तेनायोगो व्यवच्छिद्यते नान्ययोगस्तदंशव्याप्त्या तस्य प्रतिपादित[त्वेन दृष्टान्ते संदेहाभावात् ।
20 "तदंशः” तद्धर्म इति]। तच्छब्देन पक्षः परामृश्यते न धर्मः, धर्मस्य धर्मासम्भवात् । अंशश्च धर्मो नैकदेशः, पक्ष[शब्देन धर्मिमात्रवचनात् । न तदंशः तस्य एक देशाभावादिति ।
[$८. व्याप्तेाप्यव्यापकोभयधर्मत्वम् । ] तस्य पक्षधर्मस्य सतो व्यासिः - यो व्यानोति यश्च व्या- 25 प्यते तदुभयधर्मतया प्रतीतेः । यदा व्यापकधर्मतया विवक्ष्यते त]दा व्यापकस्य गम्यस्य । तत्रात [T. 217a.] सत्सप्तम्यर्थप्रधानमेतत् नाधारप्रधानम् , धर्माणां धर्मान्तरत्वाभावात् । ते१. व्याप्यव्यापक । २. भाव एवेति सम्बन्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org